________________
(८) 'अन्योन्यपक्ष.' इति-साध्यधर्मवैशिष्ट्येन, पच्यते व्यक्तीक्रियते हेत्वादिभिरिति " मावावद्यमि० " इति से पक्षः साध्यधर्मविशिष्टो धर्मी, शब्दोऽनित्य एवेत्यादि, प्रतिकूलः पक्षः प्रतिपक्षः, अन्योन्यं पक्षप्रतिपक्षास्तेषां भावः, परस्परविरुद्धधर्मोपन्यासस्तस्माद्यथा मत्सर:-सातिशयो विद्यते येषामतिशायने " ईनि" इति मत्स5 रिणः प्रकर्षेणोद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थ एभिरिति " व्यञ्जनाघम्” इति पनि
प्रवादाः शेषदर्शनानि, यथा ते परस्परविरोधान्मत्सरिणः सन्तः पक्षपातिनो, न तथा मत्सरी सन् त्वत्समयः पक्षपातीति प्रक्रमभेदाभावं न पक्षपातीति न विरोधी । सम्यगेति गच्छत्यर्थमिति समयः सङ्केतो, यद्वा सम्यगयन्ति गच्छन्ति जीवादयः पदार्थाः
खरूपप्रतिष्ठामस्मिनिति समय:-सिद्धान्त: “पुंनाम्नि घः" । अत्राऽर्थे विशेषणद्वा10 रेण हेतुवैशिष्ट्यमिति निरवधारणा अभिप्रायविशेषाः, सावधारणास्तु दुर्नयाः; समस्ता
र्थप्रदर्शकं तु प्रमाणमेवं-ते च नैगम १-संग्रह २-व्यवहार ३-ऋजुसूत्र४-शब्द ५समभिरून ६-एवम्भूता ७ इति सप्त, अविशेष समत्वेन मन्यमानः। 'नयास्तव०' इति-त्वदीयस्यात्पदचिह्निताः । अभिप्रेतं फलन्ति “लिहादिभ्यः" इति अभिप्रेतं
फलं येभ्य इति वा अभिप्रेतफला भवन्ति, रसेन पारदेनोपविद्ध मिश्रिता लोहध. 15 ताव इव शुल्वादिधातव इव । यतस्तस्मादारात् सम्यग्ज्ञानदर्शनचारित्रात्मकमोक्ष
मार्गस्य समीपं याताः। आराडूरं सर्वपापेभ्यो याता इति वा “ क्वचिद् " इति डे, " पृषोदरादयः" इति साधुत्वात् । आर्या-गौतमादयः, प्रणता इति प्रणन्तुमारब्धा यतो हितैषिणस्ते ॥
अथ व्याख्यानान्तरेणाऽभिधेयप्रयोजनाभिधानायाऽऽ-अथवा इति, विविक्ता20 नामसाधुत्वविप्रमुक्तानां शब्दानां प्रयोगात्तत्त्वज्ञानं, तद्वारेण च परमपदं भवेत्, यत उक्तं
" द्वे एव ब्रह्मणी ज्ञेये, परं चाऽपरमेव च ।
शब्दब्रह्मणि निष्णातः, परं ब्रह्माऽधिगच्छति ॥१॥" इति । शब्दब्रह्म शब्दतचं तच्च शब्दानुशासनादेव ज्ञायते, अत्र च शब्दा अभि25 धेयाः, सम्यग्ज्ञानमनन्तरं प्रयोजनं, परम्परं तु परमपद प्राप्तिरिति ।
१ कलिकालसर्वज्ञविरचितान्ययोगव्यवच्छेदिकायाम् । २ उ ५६४ । ३ मत्सरः । ४ ७-२-४ । ५५-३-१३२ । ६५-३-१३० । ७ स्तुतिकारोऽप्याह-'नयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः॥१॥ इति सामंतभदाचावकृतश्रीविमलनाथस्तवे । ८५-१-१७१।९३-२-१५५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org