________________
क्यनन्तरमेव विनाशात्कस्य 'हस्वादिविधिः' । तस्माद्वर्णरूपतया नित्या वर्णा इस्वादिरूपतया त्वनित्या इति इस्वादिविधिरुपपद्यते । 'अनेककारक० ' इति द्रव्याणां हि स्वपराश्रयसमवेतक्रियानिर्वर्तकं सामथ्र्यकारकं, तच्च कर्नाद्यनेकप्रकारमेकस्याऽपि लभ्यते, यथा पीयमानं मधु मदयति, वृक्षमारुह्य ततः फलान्यवचिनोति, विषयेभ्योऽविभ्यदनात्मज्ञस्तेभ्य एवाऽऽत्मानं प्रयच्छन् तैरेव बन्धमाप्नोतीत्यादि । तच्चैकस्य 5 सर्वथा नित्यत्व एकरूपवृत्तित्वेन रूपान्तरानुपपत्तेन घटते, सर्वथानित्यत्वेपि न घटते, तथाहि-स्वातन्त्र्यं कर्तृत्वं, तच्चेदं फलम् , इयं क्रिया, इदं करणम् , अयं क्रमः, अयं व्ययः, इदमनुषङ्गजं फलम् , इयं मम दशा, अयं मम सहाया, अयं विपक्षः, इमौ च मम प्रयतमानस्य देशकालौ इति विमृशन् प्रेक्षापूर्वकारी प्रयतते । इत्येवं परिदृष्टं सामर्थ्य कारकप्रयोक्र्तृत्वलक्षणं, तदपि नाऽनित्यस्य क्षणमात्रावस्थायित्वेन 10 जन्मानन्तरमेव विनष्टस्य युज्यते, किं पुन:-'कारकसंनिपातः'? इति नित्यानित्यात्मकः स्याद्वादोऽङ्गीकर्तव्यः । तथा तमन्तरेण भिन्नप्रवृत्तिनिमित्तयोः शब्दयोरेकत्राऽथै वृत्तिः 'सामानाधिकरण्यम्' इति लक्षणं सामानाधिकरण्यं न घटते, तयोहि भेदे घटपटयोरिव नैकत्र वृत्तिः स्यात्, नाऽप्यत्यन्ताभेदे भेदनिवन्धनत्वात तस्य नहि भवति नीलं नीलमिति, किञ्च नीलशब्दादेव तदर्थप्रतिपत्तावुत्पलश- 15 ब्दानर्थक्यप्रसङ्गः । तथा' विशेषणविशेष्ययोः' परस्परमत्यन्तभेदे घटपटयोरिव न विशेषणविशेष्यभावः स्यात् , अत्यन्ताभेदेऽपि स न स्यात्, नहि भवति घटो घट इति विशेषणविशेष्यभावो द्वयनिबन्धत्वात्तस्य, तथाखञ्जकुण्टः कुण्टरवञ्ज इत्यादिष्वेकस्यैव विवक्षावशाद्विशेषणत्वं विशेष्यत्वं च भवति ततः कथश्चिद्भेदः कथञ्चिदभेदः, कथञ्चिद्विशेषणत्वं कथञ्चिद्विशेष्यत्वं चेत्यादिरूपः स्याद्वादोऽङ्गी- 20 कर्तव्यः, 'आदि' शब्दात् स्थान्यादेशप्रकृतिविकारनिमित्तनिमित्तिभावादिपरिग्रहः । किश्च-शब्दानुशासनमिदं शब्दं प्रति विप्रतिपद्यते । नित्य इत्येके, अनित्य इत्यन्ये, नित्यानित्य इत्यपरे । अत्र नित्यत्वानित्यत्वयोरेकतरपक्षपरिग्रहे शब्दानुशासनस्य सर्वोपादेयत्वं न स्यादित्याह 'सर्वपार्षदत्वाचेति, "पृणातीति" "प्रैः सद्" इति पर्षद , तत्र साधुः “ पर्षदोण्यणौ " इति णे पार्षदं, पार्षदत्वेन च साधारणत्वं 25 लक्ष्यते, तेन सर्वेषां पार्षदं सर्वपार्षदं सर्वसाधारणमित्यर्थः । दृश्यते तचमेकदेशेनैभिरिति दर्शनानि नयाः, समस्तानां तेषां यः समुदायस्तदात्मकस्य स्याद्वादस्याऽभ्युपगमो नितरां निर्दोष इत्यर्थः । अतिरमणीयमिति-रमेर्णिगन्तात् “ प्रवचनीयादयः" इत्यनीयः।
१ अनेककारकसन्निपातः इति ॥२ पृश पालनपूरणयोः। ३ उ ८९७ । ४ ७-१-१८ । ५ ५-१-८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org