________________
(
६
इति ४ ।“ नस्तं मत्वर्थे " इति ५ । “धुटि” इति ६ । “ सौ नवेतौ " इति ७। “शसोऽता ” इति ८।" इदितो वा” इति ९ । “ तयोः समूहवञ्च बहुषु ” इति १० । आदीनि सूत्राणि क्रमेण ज्ञातव्यानि । एतेषां मध्य एतदधिकारसूत्रमाशास्त्रपरिसमाप्तेः। 5 स्यादित्यव्ययम्' इति यद्वा स्याद्रपो वादः स्याद्वाद इति । " अव्ययं
प्रवृद्धादिभिः" इति समासः । तदा 'वाद' शब्देनोक्तस्याऽनेकान्तस्य द्योतको यदा तु स्वरादित्वाद्वाचकत्वेन ' अनेकान्तद्योतकः' तदा स्यादित्येतस्य वादः
'स्याद्वादः ' "कृति" इत्यनेन समासः । अमति गच्छति धर्मिणमिति “ दम्यमि०" 10 इति तेऽन्तो धर्मः, न एकोऽनेक:-अनेकोऽन्तो यस्याऽसाविति अनेकान्ता, तेषु
तस्य वदनं याथातथ्येन कथनं वादः । स च स्वाभ्युपगतस्यैव भवतीत्याह-'नित्यानित्या०' इति निर्बुवं भवं " नेधुवं” इति त्यचि नित्यं, नीयते कालान्तरेऽपि प्राप्यत इति वा नित्यं “ शिक्यास्या० ” इति निपातनादुभयान्तापरिच्छिन्नसत्ताकं
नित्यं तद्विपरीतमनित्यम् । आदीयतेऽर्थोऽसादिति “ उपसर्गादः कि " इति को 15 आदि:-आदिशब्दात्सदसदात्मकत्वाभिलाप्यानभिलाप्यत्वगुणपर्यायग्रहः । सर्व वस्तु
द्रव्यरूपतया नित्यं पर्यायरूपतया त्वनित्यं, तथा सर्व वस्तु स्वरूपेण सत् पररूपेणाऽसत् । तथा-गोत्वादि सर्वगवादि व्यक्त्यनुगतत्वेन सामान्यं सत्ता सामान्यापेक्षया तु विशेषः । इक्षुक्षीरादीनां माधुर्य शब्दाभिधेयत्वेनाभिलाप्यं, माधुर्यतारतम्यस्य वक्तु
मशक्यत्वेनाऽनभिलाप्यं । सह भाविनो धर्माः सामान्यादधोगुणा उच्यन्ते, क्रममा20 विनस्तु नवपुराणादयः पर्यायः । धरन्ति वस्तुनो धर्मिरूपतामिति 'धर्माः,'
शाम्यति विविधैर्धमैयुगपत्परिणतिं यातीति " शेमेबंचवा" इत्यले 'शबलं'। एति गच्छत्येकत्वसंख्यामिति क एकः । वसन्ति धर्मा अस्मिन्निति “ सेर्णिद्वा" इति तुनि 'वस्तु,' नित्यादिनाऽनेकधर्मेण शबलं यदेकं वस्तु तस्य 'अभ्युप
गमा' । प्रमाणाविरुद्धोऽङ्गीकारस्तत एव शब्दानामनित्यत्ववादिमते सिद्धिनि25 पत्तिः, नित्यत्ववादिमते तु ज्ञप्तिर्भवति ।।
नाऽन्यथेत्यत आह-' एकस्यैवहिः' इत्यादि । नदि एषा इत्यादी इस्वो, दण्डानम् इत्यादौ दीर्घा, देवदत्त ३ अत्र त्वमसि इत्यादौ प्लुतः । वर्णानां च सर्वथा नित्यत्वे पूर्वधर्मनिवृत्तिरूपस्य 'हस्वादिविधिः' असम्भवः। सर्वथाऽनित्यत्वे तूत्प
११-१-२३ । २ १-४-६८ । ३१-२-३८ । ४१-४-४९। ५८-४-१ । ६७-३-३ । ७६-१-४८। ८३-१-७७ । ९ उ २०० । १० ६-३--१७ । ११ उ ३६४ । १२५-३-८७ । १३ उ. ४७० । १४ उ. ७७४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org