________________
(५) " अकारेणोच्यते विष्णू, रेफे ब्रह्मा व्यवस्थितः।
हकारेण हरः प्रोक्त-स्तदन्ते परमं पदम् ॥१॥ इतिश्लोकेनाऽहंशब्दस्य विष्णुप्रभृतिदेवतात्रयाभिधायित्वेन लौकिकागमेष्वपि 'अहम् ' इतिपदमुपनिषद्भूतमेवेति । अत्र तदन्त इति तुर्यपादस्याऽयमर्थः, तस्याहंशब्दस्याऽन्त उपरितनभागे परमं पदं सिद्धिशिलारूपं; तदाकारत्वादनुनासिकरूपा 5 कलापि परमं पदमित्युक्तम् । ' अशेषविघ्नः' इत्यादि, विहन्यन्ते कार्याण्येभिरिति विघ्नाः । नियमेन हन्यते ज्ञायते पारतन्त्र्येणेति निघ्नं, उभयत्रापि " स्थादिभ्यः" क इति । 'दृष्टादृष्ट०' इत्यादि दृष्टं राज्यादि, अदृष्टं स्वर्गादि । सङ्कल्प इच्छासम्पादनं । ' आशास्त्र.' इत्यादि, शास्त्रात् 'आ' अभिव्याप्य आशास्त्रं, अध्ययन चाऽध्यापनं चाऽध्ययनाध्यापने ते अवधी यस्य तत्तथेति क्रियाविशेषणं । 10
'प्रणिधानं च' चतुर्धा, पदस्थं पिण्डस्थं रूपस्थं रूपातीतं चेति । पदस्थमईमितिपदस्थस्य, पिण्डस्थं शरीरस्थस्य, रूपस्थं प्रतिमारूपस्य, रूपातीतं योगिगम्यस्याहतोध्यानमिति । एवाद्ये द्वे शास्त्रारम्भे सम्भवतो नोत्तरे द्वे । 'अनेनाssत्मनः सर्वतःसम्भेदः' इत्युक्तंपदस्थम् , सम्भेदो वेष्टनं; अत्र सप्तमी प्रामोति तत्र प्रणिधानं ध्यानमित्यर्थः । तत्कथं सामानाधिकरण्यं ? सत्यं, ध्यानं विषयि सम्मेदस्तु 15 विषय इति तयोरभेदोपचारात्सामानाधिकरण्यं, 'तदभिधेयेन चाऽभेदः' इति पिण्डस्थमुक्तम् । तदभिधेयेनार्हताऽऽत्मनोऽभेदः। य एवाऽहं स एवार्हनिति य एव चाहन् स एवाऽहमिति । 'वयमपि च०' इत्यादि, अत्र विशिष्टप्रणिधेयप्रणिधानादिगुणप्रकर्षादात्मन्युत्कर्षाधानाद्गुणबहुत्वेनाऽऽत्मनोऽपि तदभिन्नतया बहुत्वाद्वयमिति बहुवचननिर्देशः । तात्त्विक०' इति, तत्त्वमेव “ विनादिभ्यः” इति 20 इकण्, तत्वं प्रयोजन मस्येति वा १-१-१॥
'सिद्धिः स्याद्वादात्' १-१-२॥ इत्यत्र गम्ययप इति पञ्चमी स्याद्वादमाश्रित्येत्यर्थः । इह हि-"संज्ञा च परिभीषा च, "विधिनियम एव च ।
प्रतिषेधो विकारश्च, विकल्पंश्च समुच्चयः ॥ १ ॥
अतिदेशोऽनुवादश्च, दशधा सूत्रलक्षणम् ।" इति दशधा सूत्राणि भवन्ति, तानि च " औदन्ताः स्वराः" इति १। " प्रत्ययः प्रकृत्यादेः” इति २ । “ नाम्यन्तःस्थाकवर्गात् ” इति ३। “ नाम सिव्यञ्जने"
25
१ कलिकालसर्वज्ञश्रीहेमचन्द्रसूरीश्वरविरचितश्रीमहादेवस्तोत्रे श्लो० ३९ । २ विघ्ने निघ्ने च । ३५-३-८२। ४७-२-१६९ । ५१-१-४ । ६७-४-११५। ७२-३-१५। ८१-१-२९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org