________________
संस्कृतप्राकृतसौरसेनमागधपैशाचिकापभ्रंशभाषाभेदेन षोढा शब्दा भवन्ति, ते च नाऽव्युत्पादिता ज्ञायन्त इत्यतस्तेषां सर्वेषामपि व्युत्पादनायाऽष्टभिरध्यायैः पादचतुष्टयरूपैः श्रीसिद्धहेमचन्द्राभिधानमिदं शब्दानुशासनं श्रीमदाचार्यहेमचन्द्रश्चकार । तत्र च सप्तभिरध्यायः संस्कृतशब्दा एकेन चाऽध्यायेन तदितरे सर्वेऽपिव्युत्पादिताः। 5 तत्राऽप्यध्यायसप्तके चतुष्कोऽऽख्यात कृतद्धितरूपाणि चत्वारि प्रकरणानि भवन्ति । तत्र सन्धिनामकारकसमासाँचत्वारो मानमस्येति चतुष्कश्चतुर्णां समुदायः । धातुप्रत्यययोगात् क्रियासाधकत्वेनाऽऽख्यायते स्मेत्याख्यातं, चतुष्काख्याताभ्यां पश्चात् क्रियत इति कृत् , तेभ्योऽणादिप्रत्ययेभ्यो हितं तद्धितं । तत्र चतुष्के दश पादा,
आख्याते षट्, कृति चत्वारस्तद्धिते चाऽष्टौ । इति सिद्धहेमचन्द्राभिधानशब्दानुशा10 सनसकलसूत्रार्थसमुद्देशः । अस्य चाऽऽदौ सूत्रकारो निर्विघशब्दानुशासनस्त्रनिष्पत्तिनिमित्तमिष्टदेवतानमस्कारं चकार
'अहम् ' १-१-१॥ अहम् इति इदं च सानुनासिकाकारान्तमव्ययं, अर्हमिति मन्तोऽप्यस्ति शब्दः। 'अक्षर' मिति समुदायसमुदायिनोरमेदादेकत्वं, अथवा न
क्षरति-न चलति स्वस्वरूपादित्यक्षरं । तत्वं परमब्रह्मेति-यावद् । व्याख्यानं च 15 त्रिधा भवति, स्वरूपाख्यानमर्भिधातात्पर्य चेति । ततोऽक्षरमिति स्वरूपाख्यानं ।
'परमेश्वरस्य परमेष्ठिनो वाचकम् ' इत्यभिधा, ' सिद्धचक्रस्याऽऽदिबीजम्' इति तात्पर्य, व्याख्यानं तत्र परमे पदे तिष्ठतीति " परमारिकत् ” इतीन तत्पुरुषे " कृति" इति “ अव्यञ्जनात् सप्तम्या " अलु प्राप्तावपि “ ने सिद्धस्थे "
इत्यनेन बाधिता, ततो " भीरुष्ठानादयः" इति पाठात् पत्वे " अव्यञ्जनात् सप्तम्या०" 20 अलुपि च परमेष्ठी । परमेष्ठिनश्वाऽर्हत्सिद्धाचार्योपाध्यायसर्वसाधुरूपाः पञ्च भव
न्तीति, शेषचतुष्टयव्यवच्छेदायाऽऽह-परमेश्वरस्येति, चतुस्त्रिंशदतिशयरूपपरमैश्वर्यभाजो जिनस्येत्यर्थः । सिद्धा विद्यासिद्धादयस्तेषां चक्रमिव । तस्य पश्च बीजानि तेषु चेदमादिवीजं 'सकलाः' निशेषाः लौकिकाः लोकोत्तराश्च य आगमास्तेषामुपनिषदं
भूतं प्राप्तं " श्रितादिभिः” इति समासः । 25 ननु " अहं " इत्यर्हद्वाचकत्वेन कथं लौकिकागमानामुपनिषद्भूतमिति ?
सत्यं, सर्वपार्षदत्वाद्धि शब्दानुशासनस्य सर्वदर्शनानुयायीनमस्कारो वाच्यस्तत इत्थं व्याख्येयम्
... १ उ. ९२५:। २ ३-१-७७ । ३ ३-२-१८। ४ ३-२-२९। ५ २-३-३३ । ६ ३-२-१८ । ७ सकलागमोपनिषद्भतम् इति । ८३-१-६२। ९ रहस्यभूतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org