________________
15
च्यते । नमस्कार्यश्च स एव भवति, यस्य पूजातिशयवचनातिशयज्ञानातिशयापायापगमातिशयलक्षणमतिशयचतुष्टयं भवति । तत्र 'परमात्मानम् ' इत्यनेन पूजातिशयः प्रकाशितः । अत एव " सन्महत्परमो० " इत्यनेन पूजायां समासः । तथा श्रेयांसश्च ते शब्दाश्च, ताननुशास्तीति “ रम्यादिभ्यः" इत्यनटि श्रेयाशब्दानुशासनः। तमेवंविधं परमात्मानमित्यावृत्तिव्याख्यानाद् वचनातिशयः, स च न ज्ञाना- 5 तिशयं विनेति, तेन ज्ञानातिशय आक्षिप्यते, सोऽपि च नाऽपायापगमातिशयं विनेति, तेनाऽप्यपायापगमातिशय आक्षिप्यते । अपायभूता हि रागादयस्तेषामपगमः स एवाऽतिशयः । ईश्वरस्यापि हि सदा शिवावस्थायां रागाद्यपगमोऽस्त्येव । अन्यदेवतानां तु सुगम एव । तथा शब्दानुशासनमिति पदेन शब्दा व्युत्पाद्याः । इदं च व्याकरणं व्युत्पादकमिति व्युत्पाद्यव्युत्पादकलक्षणः सम्बन्ध उक्तः । तदन्तर्गतं च 10 शिष्यस्य शब्दव्युत्पत्तिराचार्यस्य च शब्दव्युत्पादनं प्रयोजनं प्रतिपादितं, यत उक्तं
"सिद्धार्थ सिद्धसम्बन्धं, श्रोतुं श्रोता प्रवर्तते।
शास्त्रादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः ॥१॥” इति । अप्रशस्यतरेण च शब्दानुशासनेन शिष्याचार्ययोः शब्दव्युत्पत्तिव्युत्पादनलक्षणे प्रयोजने नोपपद्येत, इत्याह श्रेयः प्रशस्यतरं । ननु पूर्वप्रणीतं
" बाह्ममैशानमैन्द्रं च, प्राजापत्यं बृहस्पतिम् ।
त्वाष्टुमा पिशलं चेति, पाणिनीयमथाऽष्टमम् ॥ १॥" इत्यादि शब्दानुशासनजातमस्ति तस्माच्च कथमिदं प्रशस्यतरमिति ? उच्यते, तद्धि अतिविस्तीर्ण विप्रकीर्णं च कातन्त्रं तहिं साधु भविष्यतीति चेन तस्य संकीर्णत्वात् , इदं तु सिद्धहेमचन्द्राभिधानं शब्दानुशासनं नाऽतिविस्तीर्ण, न विप्रकीर्ण, न च 20 संकीर्णमिति । अनेनैव शब्दव्युत्पत्तिर्भवतीति, इति मौलोऽर्थः प्रतीत एव । न च गुरुशिष्ययोः सावधानतामन्तरेण शब्दव्युत्पादनव्युत्पत्ती सम्भवत इति पूर्वार्धमावृत्यापि व्याख्यायते । परं आत्मानं च प्रणम्य प्रह्वीकृत्य सावधानीकृत्येति योगः। किं विशिष्टं परं. १ श्रेयाशब्दाननुशासयतीति श्रेयःशब्दानुशासनस्तं, किं विशिष्टं चाऽऽत्मानम् १ श्रेयःशब्दाननुशास्ति श्रेयःशब्दानुशासनस्तं, उभयत्र " रम्यादिभ्यः " 25 इत्यनट् । इति श्लोकपूर्वार्द्धव्याख्या ॥ उत्तरार्द्धन तु स्वकीयनाम भङ्ग्यन्तरेण च सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनटीका नाम च ग्रन्थकारः प्राचकटत् । स्वोपज्ञशन्दानुशासनस्य 'तत्त्वप्रकाशिका' टीका मया विरच्यत इत्यर्थः । इह हि १३-१-१०७ । २५-३-१२६ । ३ आचार्यहेमचन्द्रेण, स्मृत्वा किञ्चित् प्रकाश्यते ॥ इति उत्तरार्धः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org