________________
( २०६ ) क्षायामपि यथा स्यादित्यर्थम् । जातिकालेत्यनेन पृथग्योग उत्तरार्थस्तेनोत्तरत्र प शब्देन प्रहरणादित्याकृष्यते ।
'न सप्तमीन्दादिभ्यश्च ' ३।१।१५५ ॥ ऊर्णनाम इति "क्यापो बहुलं." इति इस्वः। सर्वेषु उष्ट्रमुखादित्वात् समासः। 5 'प्रियः'।३।१।१५७॥ प्रियगुड इति-अत्र प्रियशब्दस्य गुडादेर्वा विशेषणत्वेन नित्यमेकस्य पूर्वनिपातप्राप्तावुभयत्र प्रियशब्दस्य पाक्षिको निपातः । प्रियचत्वा इति-अत्र चतुःशब्स्य संख्यात्वात् नित्यं पूर्वनिपातः प्राप्तः।
__ 'कडारादयः कर्मधारये'।३।१।१५८ ॥ जैमनिकडार इति-जेमन्तीति विच जेमामिनः जेमिनः । यद्वा जेमेः " 'विपिनाजिनादयः" इतीने जेमिनस्तस्या10 ऽपत्यमृपित्वेऽपि बाहादेराकृतिगणत्वादिनि जैमिनिः । गडुलगालव इति-गडुरस्याऽस्ति सिध्मादित्वात् लः । गडोरपत्यम् ऋष्यण् । क्रफिडादित्वाल्लः ।।
'धर्मार्थादिषु द्वन्द्वे'।३।१ । १५९॥ विपूयविनीयजित्या इति-याश एव गणे दृष्टस्तादृश एव प्रयोगः न तु विनीयविपूयजित्यादयः जित्याशब्दस्यैव __ पूर्वपरभावः। 15 'लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वराय॑मेकम्'।३।१।१६० ॥ अक्षर
शब्देन स्वरोऽभिधीयते । शरसीर्यमिति पाठः, शरशीर्षमिति तु पाठे “प्राणितूर्य० " इति स्वैरभावात् समाहाराप्राप्तिः । श्रद्धामधे इति-अर्थग्राहिणी श्रद्धा, शब्दग्राहिणी मेधा; श्रद्धामूलत्वादभिप्रेतार्थसिद्धेरय॑त्वम् । दीक्षातपसीत्यादिषु-दीक्षाश्रद्धामेधानां बहूपका
रकत्वात् मूलभूतत्वात् चाऽर्चितत्वात् परत्वात् पूवनिपातः। मातापितराविति-अनुभूतग. 20 आँदिक्लेशत्वात् पितृतो माताऽभ्यर्हिता । एवं स्त्रीप्रधानत्वाद्विवाहस्य वराद्वधूरिति । एक
स्यैव यथाप्राप्तमिति दुन्दुभिशब्दादिदन्तात् परत्वादल्पस्वरत्वात् शङ्खवीणाशब्दयोयुगपत्पूर्वनिपातप्राप्तावेकग्रहणादेकस्यैव क्रमेण पूर्वनिपातः। शेषाणां विति-शङ्खवीणाशब्दयोः अश्वइन्द्रशब्दयोरिव युगपत्पूर्वनिपातप्राप्तौ एकस्यैव पूर्वनिपातः । दुन्दुभिरथादीनां तु
कामचार इत्यर्थः । एकस्यैवेत्युक्तेऽपि दुन्दुभिरथादीनां न पूर्वनिपातः । शब्दस्य स्पर्धे 25 परत्वात् तथाहि-दुन्दुभिशब्दोऽसरवीदुत् शङ्खवीणाशब्दौ तु अल्पस्वराविति । एव
मश्वरथेन्द्रा इत्यत्रापि रथशब्दो लध्वक्षरः । अश्वेन्द्रशब्दौ तु स्वराद्यौ तौ च पराविति तयोरेव पूर्वनिपातो न तु रथस्य । शङ्खदुन्दुभिवीणा इति-" प्राणितूर्याङ्गाणाम् " इति बहुवचनं क्वचिदेकत्वविधेरनित्यार्थम् , तेनाऽत्रैकत्वाभावः; माङ्गल्यवाचकत्वेन शङ्खशब्दस्य विवक्षितत्वात् स्वैरित्यभावाद्वा। यतस्तूर्याङ्गस्य तूर्याङ्गेण हि स्वत्वं भवतीति ।
१ २-४-९९ । २ उणा० २८४ । ३ ३-१-१३७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org