________________
(२०७) एवं मृदङ्गशङ्खपणवा इति-अथवा शङ्खदुन्दुभिवीणाः, मृदङ्गशङ्खपणवा इति शङ्खादीनां तूर्याङ्गत्वादेवैकवद्भावः कुतो न भवतीति ?, उच्यते-अत्र शङ्खादिशब्देन शङ्खादिसमुदायस्याभिधानात्तस्य चाऽतूर्याङ्गत्वादजातित्वाच्च नैकवद्भावः । उत्पलस्त्वाह-तूर्यांगता शङ्खादिवादकानां न तु शङ्खादीनामिति तूर्याङ्गत्वादत्रैकवद्भावो नाऽऽशङ्कनीयः । अत एव " प्राणितूर्याङ्गाणाम् " इत्यत्र पूर्वैर्दिङ्गिकपाणविकं वीणावादकपरिवादकमि- 5 त्येवोदाहियते, न तु भेरीमृदङ्गमित्यादि । तदा तु प्राणिरूपं तूर्याङ्गं प्राणितूयोङ्गमिति विग्रहः । ___ 'मासवर्णभ्रात्रऽनुपूर्वम्' । ३ । १ । १६१ । ब्राह्मणक्षत्रियाविति-अत्राऽनियमः प्राप्तः क्षत्रियवैश्यावित्यत्र त्वल्पस्वरत्वाद्वैश्यशब्दस्य पूर्वनिपातः प्राप्तः वैश्यशूद्रावित्यत्राऽप्यनियमः ब्राह्मणक्षत्रियविट्शू द्रा-इत्यत्र त्वल्पस्वरत्वाद्विशः पूर्वनिपाते 10 प्राप्तेऽनेन ब्राह्मणादीनामनुपूर्व पूर्वनिपातः । आनुपूयं च जन्मकृतं यदाह-" मुखतो ब्राह्मणा जाता, बाहुभ्यां क्षत्रियाः स्मृताः । ऊरुभ्यां तु विशः प्रोक्ताः, पद्भ्यां शूद्रो अजायत ॥१॥" न चाऽत्राय॑त्वात् पूर्वनिपातः सिध्यतीति वाच्यम् , निन्दितस्याऽपि ब्राह्मणादेः सम्भवादिति । ___ 'भर्तुतुल्यस्वरम् ' । ३ । १ । १६२ ॥ अत्रापि नक्षत्राणामृतूनां चाऽऽनु- 15 पूयं लोकप्रसिद्ध्यैव वेदितव्यम् ।
'संख्या समासे' । ३ । १ । १६३ ॥ द्विदशा इति-ननु द्विदशा इत्यादौ " सुंज्वार्थे० " इत्यनेन सुजेथे समासस्ततः " प्रथमोक्तं प्राक् ” इत्यनेनाऽपि सिध्यति किमेषामुपादानम् ?, सत्यम् । यदा दशन्शब्दः सुजर्थः समस्यते तदाऽप्यनेनाऽऽनुपूर्व्या संख्यायाः पूर्वनिपातो भवतीति फलम् ।
इत्याचार्यश्रीहेमचन्द्रानुस्मृते श्रीसिद्धहेमचन्द्रशब्दानुशासनेऽवचूर्णिकायां तृतीयस्याऽध्यायस्य प्रथमः पादः सम्पूर्णः ॥
20
संवत् १२६४ वर्षे श्रावणशुदि ३ रखौ श्रीजयानन्दसूरिशिष्येणाऽमरचन्द्रेणाऽऽत्मयोग्याऽवचूर्णिकायाः प्रथमपुस्तिका लिखिता। शुभं भवतु लेखकपाठकयोः।
इति श्रेष्ठि देवचन्द्र-लालभ्रातृ-जैन-पुस्तकोद्धार-ग्रन्थाङ्के-ग्रन्थाङ्कः ९२ । 25
१३-१-१३७ । २ ३-१-१९ । ३ ३-१-१४८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org