________________
( २०५) यथा धर्मप्रजासम्पन्ने दारे नाऽन्यं दारं कुर्वीत । एवं विष्वक्सेनार्जुनाविति-यथा स्वराधन्तत्वादर्थशब्दस्य पूर्वनिपातः प्राप्त एवमिहाऽपि विष्वक्सेनस्य वासुदेवरूपतया अर्जुनादय॑त्वेऽपि तदविवक्षायां पूर्वनिपातार्थः पाठः, वासुदेवादन्यो वा विष्वक्सेनः। चित्रास्वातीति-अत्र माणविके इत्यनुप्रयोगेण नाऽयं नक्षत्र द्वन्द्व इति दर्शयति । तत्र हि "भर्तुतुल्यस्वरम्” इत्येव सिद्धम् । जम्पतीति-न चाऽल्पस्वरत्वादेव 5 जम्दमोः पूर्वनिपातो भविष्यतीति वाच्यम् । पत्युरर्चितत्वात्पूर्वनिपातः स्यादित्यदोषः । अधरबिम्बमिति-अधरो विम्बमिव “ उपमेयं व्याघ्राद्यैः० " समासः।।
'विशेषणसर्वादिसंख्यं बहुव्रीहौ'।३।१ । १५० ॥ कण्ठेकाल इतिकण्ठे स्थिताः कण्ठे स्थिता अलुप् सः । ततः कण्ठेस्थिताः काला यस्य, कण्ठेकाला अस्येति वैयधिकरण्ये वा समासः । आधेयं प्रत्याधारो विशेषणत्वं भजत इति वैया- 10 करणाः । सर्वशुक्ल इति-अत्र शुक्लशब्देन सर्वार्थस्य विशेष्यमाणत्वाद्विशेषणत्वाभावेऽपि सर्वादित्वात् सर्वशब्दस्य पूर्वनिपातः। विश्वदेव इति-विश्वे देवा यस्येति विश्वदेवः। द्रव्यशब्देन विशेष्येणेव भवितव्यमिति नियमाभावात् सत्यपि द्रव्यशब्दत्वे देवा इति विश्वेषां विशेषणमिति सर्वादित्वाद्विश्वशब्दस्य पूर्वप्रयोगः । द्विकृष्ण इति-अत्र द्वयाद्यर्थस्य विशेष्यत्वेन विवक्षितत्वात् संख्यात्वादेव द्वयादिशब्दस्य पूर्वप्रयोगः । 15 शब्दस्पर्धे परत्वादिति-अस्याऽयं तात्पर्यार्थः अल्पस्वरत्वात् संख्याशब्दस्य पूर्वप्रयोगे प्राप्ते लक्षणातिक्रमेण “ विशेषणसर्वादिसंख्यं० ” इति निर्देशः, शब्दपरस्पर्धार्थः । उभयोस्विति-संख्याशब्दस्य सर्वादित्वेऽसर्वादित्वे च पूर्वनिपात एव सूत्रे परत्रोपादानात् । व्यन्य इति-सर्वादिगणपाठापेक्षयाऽपि यातीत्युपात्तमन्यथा संख्यापेक्षयाऽपि थाति । यद्वा व्यन्य इति संख्यास्पर्धन सिद्धावपि गणपाठस्पर्धाऽप्यस्तीति ज्ञापनार्थ- 20 मुदाहरणदिक्त्वेनोदाहृतम् । गणपाठस्पर्धस्य तूदाहरणं संख्याविमुक्तं दक्षिणपूर्वा दिगित्यादि द्रष्टव्यम् । सर्वादिसंख्ययोरिति-ननु सर्वादिसंख्याभ्यामारब्धेऽपि बहुव्रीहावन्यपदार्थस्यैव प्राधान्यात् तस्य च विशेष्यत्वादेतयोविशेषणत्वाद्विशेषणग्रहणेनैव भविप्यति किमर्थ पृथगुपादानमित्याशङ्का ।
'आहिताग्न्यादिषु । ३ । १ । १५३ ॥ नन्वग्निशब्दस्य जातिवाचित्वात् 25 " जातिकाल० " इत्यनेनैव सिध्यति किमत्र पाठः १, सत्यम् , व्यक्तिविवक्षायामपि यथा स्यादित्येवमर्थम् । _ 'प्रहरणात् '३।१।१५४ ॥ नन्वस्यादीनां जातिशब्दत्वात् । " जातिकाल." इत्यनेनैव क्तान्तस्य पूर्वनिपातः सिद्धः किमनेन ?, सत्यम् । व्यक्तिविव१३-१-१६२ । २ ३-१-१०२ । ३ ३-१-१५० । ४ ३-१-१५२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org|