________________
( २०४ ) अय॑त्वात् नारायणस्य पूर्वनिपाते प्राप्ते राजदन्तादित्वात् नरस्य पूर्वनिपातः। भीमार्जुनाविति-"धर्मार्थादिषु द्वन्द्व" इति भीमस्य पूर्वनिपातः । मातापितराविति-मातुरर्यत्वात् पूर्वनिपातः यदाह-" सहस्रं हि पितुर्माता, गौरवेणाऽतिरिच्यते । तत्कि पितृगिरा रामो, विधत्ते रेणुकावधम् ॥ १॥" श्रुततपसीति-धर्मादित्वात्तपः श्रुते इत्यपि । 5 'संख्याने' । ३।१।१४६ ॥ वत्तिपदार्थानामिति-धर्तनं वर्तः समासार्थः,
सोऽस्ति येषां पूर्वपदोत्तरपदार्थानां ते वर्तिनस्तदभिधायकानि पदानि वर्तिपदानि पूर्वपदोत्तरपदस्वभावानि तेषामर्था अभिधेयरूपास्तेषामिति । ननु दशेत्यादिना बह्वथेन गोमहिषमित्यायेकार्थस्य सामानाधिकरण्याभावाद्दशेत्यादिसंख्याशब्दप्रयोगा
देवएकवद्भावस्याऽयोगादेकवद्भावो न भविष्यतीति किमर्थमस्याऽऽरम्भ इति', 10 उच्यते-अस्याऽनारम्भे विहितैकवद्भावप्रयोगे दशादिपदप्रयोगायोगात्तत्प्रयोगे विहितै
कवद्भावस्याऽनिवर्तनादस्याऽऽरम्भ इत्यदोषः । _ 'वान्तिके'। ३ । १ । १४७ ॥ उपदेशं गोमहिषमिति-यद्यप्युपदेशं गोमहिपमित्येकवद्भावे समाहाररय द्वन्द्वाभिधेयस्यैकत्वात् साक्षात् तत्संख्यानं नास्ति
तथापि तदवयवद्वारेण भवतीति । 15 'राजदन्तादिषु ' । ३ । १ । १४९ ॥ दन्तानां राजेति-तेन राजा च दन्ता
चेति द्वन्द्वे राजदन्ता दन्तराजान इत्यव्यवस्थैव । भृष्टलुञ्चितमिति-ऋत्तुषमृषेति सूत्रे क्तस्याऽपि कित्त्वविकल्पं केचिदिच्छन्ति तन्मतेनेदम् , यद्वा ण्यन्तस्य लुचां करोति णिच, ततः क्तः। उशीरवीजशिञ्जास्थमिति-उशीरं बीजमस्मिन् उशीरवरीजम
स्मिन्निति वा, उशीरबीजो नाम पर्वतः । शिक्षायां तिष्ठतीति शिञ्जास्थः पर्व20 तस्ततो द्वन्द्वः।
आरवायनिचान्धनीति-आरटतीति “प्रह्वाह्वा०" इति, "लेटिखटि०" इति बहुवचनाद्वा निपातस्तस्याऽपत्यं, “ अवृद्धाहोर्नवा.” इत्यायनिन्; चमन्तीति किबू दीर्घः, चामां धनमस्य स चान्धनः, यद्वा चम्यते " शकितकि० " इति ये चम्यं
धनमस्य पृषोदरादिः, यद्वा चमतीति " विदनगगन० " चान्धनस्तस्याऽपत्यमत इज् 25 ततो द्वन्द्वः । वैकारिमतगाजवाजमिति-कर एव कारः विविधः कारो यस्य विकार
यतीति वा विकारस्तस्याऽपत्यमिञ् । वैकारेर्मतः । गजमदने च । गजतीत्यच् गज. स्तस्याऽयं गाजा, “ वजबजण्० " गाजं वाजतीत्यण गाजवाजः पुरुषविशेषस्ततो द्वन्द्वः। ननु दारशब्दस्य बह्वर्थत्वेन द्विवचनानुपपत्तिरित्याह-दारशब्द इत्यादि ।
१ उणा० ५१४ । २ उणा० ५०५ । ३ ६-१-११० । ४ ५-१-२९। ५ उणा० २७५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org