________________
( २०३) 'नदीदेशपुरां विलिङ्गानाम् ।।३।१ । १४२ ॥ उध्येरावतीति-उज्झत्युदकं " कुप्यभिद्यो० " हृदस्याऽपि नदीत्वं स्तोकविशेषात् । विपाट् च स्त्रीति-विशिष्टं पाशितवती क्विपि पृषोदरादित्वाद्विपाडिति न्यासः, तेन यत्र विप्राडिति दृश्यते तन्न साधु । पुरां देशत्वादिति-पुरामप्युपभोगस्थानत्वस्य देशलक्षणस्य विद्यमानत्वात् किमर्थ पूर्ग्रहणं ?, उपलक्षणं चेदं नदीग्रहणमपि ग्रामनिषेधार्थमेव । जाम्बवशालूकिन्याविति- 5 जम्बूनामदूरभवो “ निवासाऽदूरभवे." इत्यण् । शालूकान्युत्पलादिमूलान्यत्र सन्ति । गौरीकैलासाविति-कं जलम् , इला भूमिस्तयोरास्ते केलासः स्फटिकस्तस्याऽयम् ।
'पात्र्यशूद्रस्य' । ३।१ । १४३ ॥ पाव्यशूद्रा द्विप्रकाराः, आर्यावर्तान्तरर्गतास्तद्वाह्याश्च । अत्रापि आर्यावर्त्तजानां तैः स्वत्वं, तद्बाह्यानां बाबैरिति द्रष्टव्यम् । उभयेऽपि क्रमेण तक्षायस्कारमित्यादिना दर्यन्ते । किं किं दधातीति वर्चस्कादि- 10 त्वात्-किष्किन्धः । किष्किन्धादयश्चत्वार आर्यावर्ताद् बाह्या म्लेच्छभेदाः।
'गवाश्वादिः'।३।१।१४४ ॥ गवाश्वादिष्वजैडकं यावत् " पैशुव्यञ्जनानाम् ” इति विकल्पे नित्यार्थः पाठः। सर्वेषु च “ स्वरे वाऽनक्षे” इत्यवादेशः । कुजवामनमित्यादिषु चतुषु तु न्यायसिद्धे समाहारेतरेतरयोगे नित्यार्थः । श्वचण्डालमिति-नित्यवैरे " नित्यैवैरस्य ” इत्येव सिद्धमित्याह-नित्यवैराभावपक्षे इति ये 15 चण्डालपाटके श्वानो वसन्ति तेऽत्र विवक्षिताः । न च तेषां चण्डालैः सह वैरमस्ति । यद्वा चण्डालाः श्वानं घ्नन्ति अतोऽसौ धावतीति नित्यवैराभावः । शाटीपच्छिकमिति-अत्र जातित्वाद् “ अप्राणिप० " इति सिद्धावपि व्यक्तिपरनोदनायामपि यथा स्यादित्यस्य पाठः । उष्ट्रखरमिति-पशुत्वात् विकल्पे प्राप्ते, उष्ट्रशशमित्यत्र-त्वितरेतरयोगे प्राप्ते, पशुविकल्पश्च नाऽस्ति शशस्याऽग्राम्यत्वात् । मूत्रशदिति-धर्मा- 20 दित्वात् शकुन्मूत्रमपि, मूत्रशकदित्यादौ व्यक्तिपरनोदनायां " अप्राणिप० " न सिध्यतीत्युपादानम् । दर्भशरमिति-दर्भादीनां तृणजातित्वादप्राणीति नित्यविधेस्तृणविकल्पे बाधके प्राप्तेऽयं विधिः । गवेलकमिति-" स्वरे वाऽनक्षे” इत्यवादेशेऽपि लत्वस्य विकृतत्वात् समाहृतिः ।
'न दधिपयआदिः'।३।१।१४५ ॥ मधुसर्पिषीति-धर्मादित्वात पर्यायेण 25 पूर्वनिपातः। परिजाकौशिकाविति-परिजा-नदी, कौशिकश्च पर्वतः, कुशोऽस्याऽस्ति कुशिकस्याऽपत्यं बिदाद्यभिः अत्र नदीदेशेति स्वैरिति व्यावृत्त्या नित्यसमाहृतिनिषिध्यते, न्यायेन वैकल्पिकस्तु प्राप्त एव स चाऽनेन निषिध्यते । नरनारायणाविति१५-१-३९ । २ ६-२-६९ । ३ ३-१-१३२ । ४ १-२-२९ । ५ ३-१-१४१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org