________________
( २०० ) मेकत्वविकल्पो भविष्यति किमेकग्रहणेन ?, सत्यम् ; इदमेकग्रहणं ज्ञापकमन्यत्रैकशेषे समाहारविवक्षायामप्येकत्वं न भवति । __ 'पुष्यार्थाढ़े पुनर्वसुः'।३।१ । १२९ ॥ एकशेषो निवृत्त इति-भिन्नमू
करणादित्यर्थः, अन्यथा क्लीबमन्येनैकं च वा पुष्यार्थाने पुनर्वसुश्च नित्यमित्येक5 मेव योगं कुर्यात् । भे नक्षत्रे वर्तमानादिति-भ इत्येकस्याऽप्यावृत्त्या उभयस्याऽपि विशेषणत्वम् । समाहारे विति-समाहारे त्वेकत्वानेकत्वयोर्नास्ति विशेष इति । पुष्पपुनर्वसवो माणवका इति-पुष्येण चन्द्रयुक्तेन युक्तः कालः “ चन्द्रयुक्तात् काले० " इत्यण , एवं पुनर्वसु शब्दादपि । ततो " लुप्त्वप्रयुक्ते " इति लुप् । एवं कालवृत्ति
भ्यां पुष्ये जातः पुनर्वस्वोर्जाताविति ॥ भर्तृसन्ध्यादे० " इत्यण " बहुलाऽनुराधा." 10 इति तस्य लोपस्ततः पुष्यश्च पुनर्वसू चेति द्वन्द्वः । पुष्यपुनर्वसवो मुग्धा इति-मुह्यन्ति
जना एघिति “ अद्यर्थाचाधारे” इति ते साध्यः ततो येषां पुष्यपुनर्वस्वादीनां मुग्धानां कोऽर्थः १ मोहोत्पादकानां मध्ये पुष्यः पुनर्वसू ज्ञायते लोकैस्तैः पुष्यपुनर्वसवः मुग्धा इति । कर्तरि ते तु विपर्यासप्रतिपत्तारः पुरुषा उच्यन्ते, ततः पुनर्वस्वर्थस्यै
कत्वेऽपि अन्यपदार्थतया पुरुषबहुत्वे सति बहुवचनमुपपद्यत एव; अत्राऽवयवेन 15 विग्रहः समुदायः समासार्थः, ततः पुष्य इत्येकोऽवयवः पुनर्वसू इति द्वितीयः येषामिति समुदायः समासार्थः।
'विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः' ।३।१।१३० ॥ अद्रव्याणामिति-अत्र गुणादीनामाश्रयं द्रव्यं गृह्यते, न तु वैयाकरणप्रसिद्धमिदं तदित्यादि
लक्षणम् । तस्मिंस्तु गृह्यमाणे सुखदुःखादीनामपि द्रव्यत्वप्रसङ्गः । छायातपमिति 20 न भवति तयोर्द्रव्यत्वात् । बुद्धिसुखदुःखानीति-अत्र सुखदुःखे विरोधिनी बुद्धिस्त्वविरोधिनीति अविरोध्यवयवोऽसौ द्वन्द्वः स्वैरितिवचनात् नैकवद्भावः ।
'पशुव्यञ्जनानाम् ' ।३ । १ । १३२ ॥ अत्र पशवो ग्राम्या गवादयो ग्राह्या न त्वारण्याः कुरङ्गादय उत्तरत्र मृगग्रहणात् । व्यञ्जनमिति-व्यञ्जनं येनाऽन्नं रुचि. मापद्यते तदधिघृतशाकस्पादि ।
'तरुतृणधान्यमृगपक्षिणां बहुत्वे'।३। १ । १३३ ॥ तरुरिति सामान्येनोक्तेऽपि तरुविशेषा गृह्यन्ते, तेन धवाश्च वृक्षाश्चेति कृते इतरेतरयोग एव । प्लक्षौ च न्यग्रोधौ चेति-तरुणादीनां द्वन्द्वावयवानामेव बहुत्वे इति विशेषणात् द्वन्द्वस्य बहुत्वेऽपि न समाहारः । अमृगैरवहुत्वे चेति-यदा ग्राम्यपशूनामरण्यपशुभिः सहो क्तिर्भवति तदा मा भूदित्यर्थः ।
25
१६-२-६ । २६-३-८९ । ३६-३-१०७ । ४५-१-१२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org