________________
( १९९) श्रयलिङ्गत्वमुक्तं ततश्च गार्गी च गाायण चेत्यपि कृते तन्मतेऽपि पुंस्त्वं यथा स्यात् । पुमर्थो भवतीति-स्त्रीलक्षणोऽर्थो यस्य शब्दस्य स पुमर्थः। यद्वा शब्दस्येति वृत्तावध्याहर्तव्यं तस्य सम्बन्धी स्त्रीलक्षणोऽर्थः पुमर्थः । अर्थग्रहणाच विशेषणानामपि पुंस्त्वं सिद्धं, शब्दस्य तु पुंस्त्वे विशेषणानां न स्यात् ।
'पुरुषः स्त्रिया'।३।१ । १२६ ॥ अत्र वृद्धो यूनेति नाऽनुवर्तते, अघट- 5 नात् । तदनुवृत्तौ हि वृद्धः पुरुषो यूना युवसंज्ञया स्त्रियेति स्यात् । न चैतदस्ति । अस्त्री. तिवचनात् स्त्रिया युवसंज्ञाया अभावात् । ब्राह्मणाविति-ब्राह्मणश्च ब्राह्मणी च ब्राह्मणा. वित्यादौ जातिसामान्य विवक्षायामविवक्षितविशेषत्वात् " समानामर्थेनै०" इत्येकशेषः सिध्यति । भेदविवक्षायां तु द्वन्द्वः प्राप्नोतीति वचनम् । इमौ गावाविति-" स्यादावसंख्येयः” इत्यनेन त्वेकशेषे कदाचिदिमाविति स्यात् । कदाचिदिमे इति-स्त्रीपुनपुं. 10 सकानामिति परं भविष्यतीत्यापि, न वाच्यं; ब्राह्मणश्च ब्राह्मणी च ब्राह्मणावित्यादिसिद्ध्यर्थमवश्यकर्तव्येनाऽनेनैव परत्वादिहाऽप्येकशेप इत्यदोषः । नदनदीपतेरितिनन्वत्र “ नदी०" सूत्रेणैकार्थता कथं न भवति ?, तथा “ क्लीबे” इति इस्वत्वे नदनदिपतेरिति स्यात् ; उच्यते-तत्र नदीत्युक्तेऽपि नदीविशेषो गृह्यतेऽयं तु सामान्यवाचीति । घटघटीशरायोदश्चनानीति-चतुर्णामपि सहोक्तौ द्वयोरपि सहोक्तिरस्तीति 15 घटघट्योरेकशेषे घटशरावोदश्वनानीति प्राप्तम् । एवं पूर्वसूत्रेष्वपि बहूनामपि सहोक्तौ यथाप्राप्तयोः पदयोरेकशेषो भवत्येव । भेदोऽस्तीति न भवतीति-तथाहि ब्राह्मणवत्साशब्दाद् ब्राह्मणीवत्सशब्दो भिद्यते कथमित्युच्यते-एकत्र ब्राह्मणस्य वत्सा ब्राह्मणवत्सेति पुमर्थो विशेषणम् , अन्यत्र तु ब्राह्मण्या वत्सो ब्राह्मणीवत्स इति स्यर्थ इत्यर्थोऽप्यन्य इति तन्मात्रभेदाभावादेकशेषाभावः । यदुपाध्यायः-स्त्रीपुंसयोः सहो- 20 तावेकशेषः, सा च प्रधानयोरेव भवतीति यत्र प्रधानस्त्रीपुंसकृतो विशेषस्तत्रैकशेषः । इह त्वप्रधानस्त्रीपुंकृतो विशेष इत्येकशेषाभावः। ब्राह्मणवत्सश्च ब्राह्मणीवत्सा चेत्यपि कृतेऽवान्तरस्त्रीलिङ्गभेदानेकशेषः, ब्राह्मणवत्सश्च ब्राह्मणवत्सा चेति तु कृते भवत्येव ।
'ग्राम्याशिशुद्विशफसङ्घ स्त्री प्रायः' । ३ । १ । १२७ ॥ इमौ गावाविति-ननु समुदायस्य सङ्घरूपत्वात्तस्य च द्वयोरपि सम्भवात् कथं सङ्घ इति वचनाद् 25 द्वयोरपि न भवति?, सत्यम् ; द्वितीयेन विना सहोक्तेरभावात् सहोक्तिग्रहणादेव द्वयोः सङ्घ सिद्धे सङ्घग्रहणं संझप्रकर्षार्थम् ।
'क्लीवमन्येनैकं च वा' । ३ । १ । १२८ ।। ननु समाहारेतरेतरविवक्षाया
१३-१-११८ । २३-१-११९ । ३ ३-१-१४२ । ४ २-४-९७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org