SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ( १९६ ) परस्परसन्निधानेन यद्वयोः सामर्थ्यमाहितं तदन्यतरविगमेऽपि न हीयते वह्निनिवृत्तावपि वह्निसम्पादितपाकजरूपादिवदिति प्लक्षेणोक्तत्वान्यग्रोधस्याऽप्रयोगः प्राप्नोति ?, नैवम् ; न्यग्रोधार्थस्य प्लक्षेणाऽनुक्तत्वात् न्यग्रोधशब्दप्रयोगः । उक्तं ह्येतत् द्वन्द्वावयवानामेवाऽनेकार्थाभिधायित्वं न केवलानां, यथा वह्निसन्निधावेव तानं द्रव5 रूपं भवति, न तु तद्विनिवृत्ताविति । एवमिहाऽपि सहभूतावेवाऽन्योन्यस्यार्थमाहतुर्न तु पृथग्भूतौ भारोद्वाहकवत्सहभूतानां परस्परशक्त्याविर्भावादिति । ततश्च प्लक्षस्य न्यग्रोधस्य चाऽनेकार्थत्वे यद्यपि बहुत्वं प्राप्तं तथापि द्वन्द्वावयवत्वेन बाह्यमतो गौणं न तु मुख्यमिति न बहुवचनम् । सहोक्तिरिति-नन्वस्तु यथाकथश्चित्सहोक्तिः समा हारे तु न सम्भवति तस्यैकत्वात् सहोक्तेश्च भेदनिबन्धनत्वादिति ?, उच्यते-समाहारो 10 हि सङ्घातः, स च संहन्यमानानां धर्मः; संहन्यमानाश्च सहोच्यमाना एव न पृथगुच्यमाना इति तत्रापि सहोक्तिसम्भव इत्यदोषः। एकविंशतिरित्यादि-नन्वेकविंशतिरित्यादि संख्याद्वन्द्वो यद्यवयवप्रधानस्तदैकविंशतिरिति द्विवचनं प्रामोति द्वाविंशतिरिति बहुवचनम् । अथ समुदायप्रधानस्तदा नपुंसकत्वं स्यादित्याशङ्का । ___ 'समानामर्थेनैकः शेषः'। ३। १ । ११८ ॥ समानामिति निर्धारणष15 ट्यन्तं समुदायिसमुदायसम्बन्धषष्ठ्यन्तं वा न तु स्थानषष्ठयन्तम् । तत्र हि समानां स्थाने एकः शिष्यत इत्येक आदेशो भवतीति । अविशेषेऽपि यस्तदभिधाने समर्थः स एव तेषामन्यतमः स्यात्ततश्च बिसे विसानीति कृतसकारस्य पत्वं स्यादिति । निर्धारणषष्ठ्यां तु समानामित्येकसंख्याकः समानार्थो विशिष्यते । समुदायिसमुदायसम्बन्ध षष्ठ्या च समानार्थारब्धे समुदाये समानार्थ एवाऽवयवो विशिष्यत इत्यदोषः। ननु जातिः 20 शब्देनाऽभिधीयते, सा चैका सतो बहूनां प्रयोगाप्राप्तौ नाऽथ एक शेषेण, न, प्रत्यर्थ शब्दनिवेशाद् द्रव्यं द्रव्यं प्रति शब्दप्रयोगादेकेन शब्देनाऽनेकस्य द्रव्यस्याऽ. भिधानं नोपपद्यत इत्यनेकस्याऽर्थस्य प्रतिपादनेऽनेकशब्दानां वाचकानां प्रयोगः प्रामोतीति द्रव्यपदार्थदर्शने एकशेषारम्भः । अथ शेष इत्येकवचनादेक एव शेष इष्यते किमेकग्रहणेन ? उच्यते-सुखार्थम् । ननु समग्रमेवेदं सूत्रं नाऽऽरम्भणीयं समानार्थैः 25 शब्दैरनेकस्याऽर्थस्याभिधित्सायां व्यक्तावपि पदार्थे एकस्यैय तत्प्रत्यायने शक्तत्वादन्ये निवर्तन्ते उक्तार्थानामप्रयोग इति । आरब्धेऽप्येकशेषे निवर्तमानार्थप्रत्यायने स्वाभाविकी शक्तिर्यावन्नाऽनुसृता तावत्कथमसौ निवर्तमानानामर्थमभिदधीतेति ?, सत्यम् । अनुवादकत्वाददोपः । प्लक्षन्यग्रोधाविति-अर्थेन समानामिति वचनाल्लौकिक्याः समानार्थतायाः समाश्रयणादिहैकशेषो न भवति । लौकिकी तु समानार्थता द्वन्द्वाद30 न्यत्र विज्ञायते । द्वन्द्वपदानां च परस्परार्थसंक्रमात् समानार्थत्वे विज्ञायमानेऽर्थेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy