________________
अन्वाचयेऽपि गौणस्य प्रधान प्रत्यपेक्षा न प्रधानस्य गौणं प्रतीति तत्रापि सामर्थ्याभावः, नैष दोषः, यतः कारकाणि क्रिययोपश्लिष्यन्ते न परस्परेण क्रिया चौपश्लेपिका समुच्चयान्वाचययोरपि सम्भवति तत्कथं समुच्चयेऽन्वाचये वाऽसमर्थानि नामानि स्युः । परस्परापेक्षा त्वविद्यमानाऽपि न सामर्थ्यस्य विघातिका । सा हि न श्रौती किन्तु वाक्यप्रकरणादिसमधिगम्या । तत्कथं श्रौतस्य सामर्थ्यस्य सम्भवे विपरीतस्य 5 सामर्थ्यस्याऽसम्भवः समासाप्रवृत्तौ निमित्तमिति सहोक्तिग्रहणमिति । यद्वर्तिपदैरित्यादि-अयमर्थः युगपद्वन्द्ववाच्यं समुदायरूपं यदोच्यते तदा द्वन्द्वो भवति । गामश्वमित्यादौ तु परस्परं निरपेक्षाः स्वतन्त्रा गवादयो भिन्नरेव शब्दैः पृथक प्रत्याय्यन्त इति युगपद्वाचित्वाभावाद् द्वन्द्वाभाव इति । प्लक्षोऽपि व्यर्थ इति-नन्वत्र प्लक्षन्यग्रोधाविति शब्दक्रमात् क्रमवदर्थानुगमात् न सम्भवत्येव, एकैकेनाऽनेकस्याऽभिधानम् , न; 10 तर्हि द्विवचनबहुवचनानुपपत्तिः । प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधा इति । यतः प्लक्षशब्दः स्वार्थको निवृत्तोऽन्यो न्यग्रोधशब्द उपस्थितः। तत्र न्यग्रोधार्थप्रतिपत्तिकाले यदि प्लक्षार्थस्याऽवगतिर्न स्यात्तदा न्यग्रोधशब्दादेकार्थत्वादेकवचनं स्यात्तस्माद् द्विवचनबहुवचनान्यथानुपपत्त्या प्लक्षन्यग्रोधावित्यादावेकैकोऽनेकार्थाभिधायीत्यभ्युपगन्तव्यम्। ततश्च एकैकेन युगपदनेकस्याऽर्थस्याऽभिधानात् प्लक्षोऽपि व्यर्थो न्यग्रोधोऽपि व्यर्थ 15 इत्याह-प्लक्षन्यग्रोधावित्यत्रेत्यादि । नन्वेवं तर्हि प्लक्षश्च न्यग्रोधश्चेत्येकवचनान्तयोर्वाक्यं वृत्ती प्रदर्शितं द्विवचनान्तयोहि न्याय्यम् ?, सत्यम्; लौकिकमेतद्वाक्यं न प्रक्रियावाक्यम् । यदा तु परस्परशक्त्यनुप्रवेशेन द्वन्द्वो भविष्यतीत्यभिधित्सयाऽतिवाहिकशरीरस्थानीयं वाक्यं क्रियते तथा खल्बलौकिकं समीपगतपदान्तरवस्तुखचितं द्विवचनान्तयोर्वाक्यं क्रियते । यद्भाष्यं सति प्रदर्शयितव्ये वरमेवं वाक्यं धवौ 20 च खदिरौ चेति । अलौकिकत्वाच्च वृत्तौ न प्रदर्शितम् । न चैवं प्लक्षन्यग्रोधयोद्विकद्वयसंकल्पनेनाऽनेकार्थत्वाद्वहुवचनं प्राप्नोतीति वाच्यम् । यतो नाऽत्र चत्वारोऽर्थाः । किं तर्हि ? द्वावेवाऽौँ यकाभ्यामेवाऽत्रैकः शब्दो द्वयर्थस्ताभ्यामपरोऽपि, नहि द्वाभ्यां लक्षाभ्यामविभक्तिको भ्रातरौ चतुर्लक्षौ भवतः। समुदायरूपो हि द्वन्द्वार्थः प्रत्यवयवमवयविवत्प्रतिसंकान्त इति । यथा वनविटपिविलोकने वनं विलोकितमि- 25 त्येकैकस्तथारूपप्रतिभासभाग्भवति । तदुक्तं " अनुस्यते च भेदाभ्यामेका प्रख्योपजायते । यद्वा सह विवक्षायां, तामाहुर्द्वन्द्वशेषयोः॥१॥" इति । ननु लौकिकात् प्रयोगात् शब्दानामावधारणं तत्र यथा घटशब्दः पटाथ न प्रत्याययति, तथा पक्षन्यग्रोधशब्दौ परस्परार्थस्य प्रत्यायको न युक्तौ ?, न: प्लक्षशब्दस्य न्यग्रोधार्थत्वान्यग्रोधस्य च प्लक्षार्थत्वात् स्वार्थस्यैवाभिधानान्नैतयोरन्तिराभिधायित्वं, लोकप्रसिद्ध्या 30 त्वर्थान्तराभिधायित्वमुच्यते । वृत्तिविषये त्वेकैकस्य द्वावर्थाविति स्वार्थावेवैतौ । ननु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org