________________
( १९४ )
अकिञ्चनमिति - नञः स्याद्यन्तेन समास आरम्यमाणः समुदायस्यानामत्वात् स्याद्यन्तत्वाभावात् नञ्समासाप्रवृत्तावनेन समासः ।
कुतपवस्त्र इति - छागरोममयं केचित्कम्बलं कुतपं विदुस्तद्वत्रं यस्य । सर्वं निपातनात्सिद्धमिति - निपात्यन्ते - गम्यन्तेऽनुरूपाण्य विहितान्यपि लक्षणान्यस्मिन्निति नि 5 पातनम् | सूत्रे लक्ष्यस्य स्वरूपेणोपादानमिति ।
' चार्थे द्वन्द्वः सहोक्तौ ' । ३ । १ । ११७ ॥ एकग्रहणादिति तद्ध्यनेकस्य पूर्वनिपातप्रसक्तावेकस्य पूर्वनिपातनियमार्थं द्वयोश्च द्वन्द्वेऽनेकस्य पूर्वनिपातप्रसङ्गाभावादेकग्रहणमनर्थकं स्यात् । यद्वा नाम नाम्नेति व्यक्तिपदार्थों नाऽऽश्रीयतेऽपि तु जातिः | अनुवृत्तस्य हि रूपस्य यथा लक्ष्यानुग्रहो भवति तथाsर्थकल्पना क्रियते 10 इति बहूनामप्ययं समासः । इत्येव स्यादिति - पूर्वपदस्योत्तरपदे प्रत्येकं “ आद्वन्द्वे ” इत्यकारः स्यादित्यर्थः । ग्रामो ग्राम इति - अत्र वीप्सायां सहोक्तिसद्भावेऽपि चार्थाभावाद् द्वन्द्वाभावः । सहोक्ताविति यत्र समासे द्वयोर्धर्मयोर्धर्मिणोर्वा भिन्नयोः प्राधान्यं विवेद्यते सा सहोक्तिः । कर्मधारये तु धर्मिण आश्रयस्यैव प्राधान्यात्तस्य चैकत्वं, अतः खञ्जकुण्टादौ न सहोक्तिः । प्लक्षच न्यग्रोधश्च वीक्ष्यतामिति - पूर्वत्रेत्थं 15 सम्बन्धः । इतरेतरयोगे तिष्ठतः कस्कः, प्लक्षच न्यग्रोधश्च समाहारे तु प्लक्षश्च न्यग्रोधचेति समुदायस्तिष्ठति । तत्रैकमर्थं प्रतीत्यादि - अर्थः क्रियाकारकद्रव्यरूपः । यादीनां क्रियाकारकद्रव्यगुणानामिति-तत्रैकस्मिन् कारकेऽनेकक्रियाणामेकस्यां क्रियायाम ने ककारकाणामेकस्मिन् द्रव्येऽनेकद्रव्याणामेकस्मिन् कारकेऽनेकद्रव्याणामेकस्मिन् धर्मिण्यनेकधर्माणां ढौकनं समुच्चय इति । यथा चैत्रः पचति च पठति 20 चेत्यादिषु यथाक्रमं दर्शयति । एकमर्थं प्रति द्वयादीनामात्मरूपभेदेन चीयमानता समुच्चय इत्येव लक्षणमन्यस्तस्यैव प्रपञ्चः । अन्वाचयोऽप्येवंविध इति - इयता तु भिद्यते यत्समुच्चये समुच्चीयमानानाः क्रियाकारकादिविशेषाः सर्वे तुल्यकक्षाः । अन्वाचये तु एकस्य गुणभावोऽन्यस्य प्रधानभावस्तद्यथा “ रुधां स्वराच्छ्नो नइति । अत्र हि विधीयमानं नं नलोपोऽपेक्षते, यत्र वस्त्र नलोपो, 25 यथा ' भञ्जप् ' आमर्दने - भनक्ति । श्रस्तु नलोपं नाऽपेक्षते तदभावेऽपि प्रवृत्तेर्यथा युनक्तीति । परस्परसव्यपेक्षाणामिति - एतावता चादीनां द्योतकानां व्युदासः । सहोत्यभावादिति - ननु समुच्चयान्वाचययोः सामर्थ्याभावादेव समासो न भवि - ष्यति, किं सहोक्तिग्रहणेन ? तथाहि - परस्परानपेक्षाणामनियतक्रमयौगपद्यानां क्रियाकारकादीनां समुच्चयो दृश्यते । यथा गामश्वमित्यत्र नयनक्रियायां गवादीनाम् । १ ३-४-८२ ।
"
लुकू व ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org