________________
( १९३ ) युवत्वविशिष्टो नरोऽभिधीयते, खलतिशब्देनाऽपि स एवाऽभिधीयते, ततो गुणवचनत्वात् कामचारेण पूर्वनिपाते प्राप्ते पूर्वनिपातार्थ वचनमिति ।
'कृत्यतुल्याख्यमजात्या' । ३ । १ । ११४ ॥ आख्याग्रहणाये पदान्तरनिरपेक्षास्तुल्यमर्थमाचक्षते इह ते गृह्यन्ते, समसदृशतुल्यप्रभृतयो न तु ये पदान्तरसान्निध्येन यथाऽग्निर्माणवक इति । अत्राऽपि तुल्यता प्रतीयते । परार्थे प्रयुज्यमानाः 5 शब्दाः सादृश्यं गमयन्तीति । न त्वत्र तुल्यता पदार्थ इति । लवणमिति-नन्द्याधनो गणपाठात् णत्वं च । भोज्य ओदन इति-ओदनत्वलक्षणाया जातेरोदनशब्दो वाचकः।
'कुमारः श्रमणादिना' । ३ । १ । ११५ ॥ ननु कुमारशब्दस्य पुंलिङ्गस्य निर्देशात् कथमत्र स्त्रीलिङ्गस्य समास इत्याह-नामग्रहणे इत्यादि। हिशब्दोऽत्र यस्मादर्थे । यद्येवं नामग्रहणपरिभाषयैव स्त्रीलिङ्गेऽपि समासस्य सिद्धत्वात किमर्थं स्त्रीलि- 10 ङ्गानां श्रमणादीनां पाठ इत्याह-श्रमणादीनामित्यादि।
'मयूरव्यंसकेत्यादयः' ।३।१। ११६ ॥ तत्पुरुषसमासा इति-कर्मधारयसमासा इत्यपि द्रष्टव्यम् । अंशण समासः । व्यसयतीति-मतान्तरेण दन्त्ये । मयूरव्यंस इति-यो लुब्धकानां मयूरो गृहीतशिक्षो भवति, अन्यानन्यान् मयूरान् छलयति स उच्यते, तद्रूपेण लोकस्यापि वश्चकः । व्यंसको विशेषणं मयूरो विशे- 15 ध्यमिति विशेषणसमासे प्राप्ते मयूरव्यंसक इत्ययं समास इति दर्शयति । कम्बोजमुण्ड इति-कम्बश्वाऽसौ जश्व बाहुलकाद्विभक्तेरलुप् । मुण्डनं मुण्डः, सोऽस्तीत्यभ्रायः । कम्बोजयवनशब्दाभ्यामपत्ये “ राष्ट्रक्षत्रियात्" इत्यजः, “ शादिभ्यो० " इति लोपः । एवं च गोत्रं च चरणैः सहेति जातित्वमनयोरित्यत्राऽपि गुणशब्दस्य पूर्वनिपाते प्राप्ते जातिशब्दस्य पूर्वनिपातार्थोऽयमारम्भः । कपर्द इति-पर्दतेरचि कुत्सितः 20 पर्दः पृषोदरादित्वात्कुशब्दस्य कभावे । उन्मृजावमृजेति-आख्यातयोः क्रियासातत्ये समासस्य वक्ष्यमाणत्वादसातत्यार्थोऽयमारम्भः । बहुव्रीहौ कच्प्रत्ययप्रसङ्गः स्यात् । मोदतेति-आत्मनेपदस्याऽनित्यत्वात् परस्मैपदम् , विकल्पणिजन्ताद्वा । जोडमिति'जुडण्' प्रेरणे इत्यतोऽचि जोडो दासः । प्रोष्यपापीयानिति-प्रवसतेः क्त्वि यबादेशे वृति “घस्वसः " इति पत्वे । निषद्यश्याऽमान्तेषु स्नात्वा कालकादिष्वेकार्थ्या- 25 भावाद् “ अव्ययं प्रवृद्धादिभिः” इति नियमात् त्याप्रत्यस्याऽव्ययस्य समासाप्राप्तावनेनाऽयं समासो निपात्यते । निषण्णश्यामेति-" विशेषणं० '' इति समासे पूर्वनिपातेऽनियमः स्यात् ।
१६-१-११४ । २ ६-१-१२० । ३ २-३-३६ । ४ ३-१-४८ । ५ ३-१-९६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org