________________
( १९३) 'कतरकतमौ जातिप्रश्ने । ३ । १ । १०९॥ कतमगार्य इति-कठ इत्यादि चरणं गार्य इत्यादि गोत्रं, ततो गोत्रं च चरणैः सहेति जातिः। कुण्डलीती-ज्योत्साद्यप्राप्तौ " शिखादिभ्य इन् "।
'पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहयष्कयणीप्रवक्तृश्रोत्रि5 याध्यायकधूर्तप्रशंसारूढैर्जातिः'३ । १। १११ ॥ वृन्दारकयुवतिरिति-अत्र
" वृन्दारकनागकुञ्जरैः” इति बाधित्वा परत्वादयमेव विधिः । अग्निस्तोकमिति-स्तोचनं भावे घनि न्यवादित्वात्कत्वे स्तोकः। सोऽस्याऽस्तीत्यभ्राद्यप्रत्यये स्तोकम् । भिन्नलिङ्गयोरपि सामानाधिकरण्यं वरं विरोध इतिवत् । सामान्यविशेषभावेनाऽयं
प्रयोगः तेनाऽग्निस्तोक इत्यपि । वेहदिति-विहन्ति गर्भमिति " संश्चत्" इति नि10 पातः । बष्कयणीति-वस्कतेरचि पृषोदरादित्वात् “ निकतुरुष्क० " इति वा वष्का
तां यातीति ये वष्कयः प्रौढवत्सः, सोऽस्या अस्ति । तदाश्रयकुत्सायामिति-न चाऽत्र कठप्रोक्तग्रन्थाध्येतत्वं वेदितृत्वं वा कठशब्दप्रवृत्तिनिमित्तं तेन कुत्स्यते किं तर्हि प्रवृत्तिनिमित्तावच्छिन्नमभिधेयम् । प्रशंसायामिति-असति तु रूढग्रहणे जातिगुण
शब्दा अपि परं स्तोतुमुपादीयमानाः प्रशंसायां वर्त्तन्त इति तेऽपि गृह्येरन् । आविष्ट15 लिङ्गा इति-उपलक्षणत्वादाविष्टवचनाश्च तेन तातश्च ते पादाश्चेति सिद्धम् । आविष्टं
आगृहीतमपरित्यक्तं स्वं लिङ्गं यैः । लिङ्गान्तरसम्बन्धेऽपि न विशेष्यलिङ्गमुपाददते । मतल्लिकेति-मया लक्ष्म्या तल्लातीति " कुशिक० " इति निपातः। मचर्चिकेति-मां लक्ष्मी चर्चयतीति णके " ड्यापो० " वा इति हस्त्रत्वे । प्रकाण्डमिति-प्रकृष्टतया
कण्यते " कण्यणि." इति णिडे । रूढग्रहणादिति-रूढग्रहणस्योक्तरूपमतल्लिकादि20 परिग्राहकत्वाद्रमणीयशोभनशब्दयोश्च रमणीयत्वादिगुणमुपादाय प्रशंसायां वर्तमानस्वादाभ्यां जातिर्न समस्यत इति ।
'चतुष्पादनभिण्या'।३।१।११२॥ ब्राह्मणी गर्भिणीति-समासे हि सति ब्राह्मणीशब्दस्य पुंवद्भावः स्यात् । संज्ञाशब्दाविमाविति-एतौ चतुष्पादमाह
तुर्न तु जातिम् । 25 'युवा खलतिपलितजरद्वलिनैः । ३ । १ । ११३ ॥ युवजरनित्यत्र
जरत्युत्साहादियुवधर्मोपलम्भात् यूनि चाऽऽलस्यादिजरद्धर्मोपलम्भात् तद्रूपारोपात्सामानाधिकरण्यम् । विशेष्पत्वादिति-विशेष्यो युवा शब्दोऽनया रीत्या युवत्वमग्रेऽपि प्रसिद्धम् , ततो युवशब्देन पुरुष एवाभिप्राप्ते । ततस्तस्य खलतीति विशेषणं ततः परनिपाते प्राप्ते । अथवा द्वयोरपि गुणवचनत्वं तदा युवत्वमप्रसिद्धं ततो युवशब्देन १७-२-४ । २ उणा० ८८२ । ३ उणा० २६ । ४ उणा० ४५ । ५ २-४-९९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org