________________
10
( १९१ ) स्तन्न वक्तव्यं, यतो नहि श्रेणय एवंविधं विशेषणं किन्तु अश्रेणयः श्रेणय इति पश्चात् श्रेणय इत्युक्तेऽश्रेणय इत्यपेक्षते इति श्रेणय इति विशेषणं न भवत्येव; किन्तु करणक्रियापेक्षया कारकमेवेति क्रियाकारकसम्बन्ध एव । यतो यथा नीलोत्पलमिति नील एवंविध एव विशेषणशब्दोऽस्ति तथाऽत्र श्रेणय एवंविधो न यतोऽश्रेणय इत्यपेक्षत इति।
'तं नमादिभिन्नैः' । ३ । १ । १०५ ॥ नहि नादयः पठ्यन्ते इत्यादि । शब्दः प्रकारवाचीत्याह-ननादयो नजप्रकारा इति । कर्तव्यमकर्तव्यं अकर्तव्यं कर्तव्यं चेति, उभयत्राऽपि विशेषणसमासो भवत्येव ।
नादिभिन्नैरिति किमिति-अन्यथा भिन्नरित्येवोच्येत । कृताकृतादिष्विति-ननु नत्रादेरपठितत्वान्नोऽव्ययत्वात्तदादिग्रहणे प्रशब्दस्याऽव्ययस्य कुतो न ग्रहणं येनाऽ. पादय एव दयन्ते इत्याह-अपादय इति ।
अवयवधर्मेणेति-अयमर्थः-एकमनेकावयवं भवतीत्येकस्याऽवयवस्य कृतत्वादवयवावयविनोः कथञ्चिदभेदात्तदेकं कृतमुच्यते, अवयवान्तरस्य त्वकृतत्वादकृतमित्येकस्य कृतत्वाकृतत्वयोः सम्भवादैकार्थ्यात्कृताकृतव्यवदेशो युज्यत इत्यर्थः ।
'सेट्नाऽनिटा'। ३ । ११०६ ॥ उपलक्षमिति-तेन सविकारमविकारेण न समस्यते इत्यपि सिद्धम् ।
15 'सन्महत्परमोत्तमोत्कृष्टं पूजायाम् ' । ३ । १ । १०७ ॥ उत्तमपुरुष इति-उत्ताम्यतीत्यचि उत्तमः । उद्गतार्थवृत्तेरुच्छब्दात्तमप् । द्रव्यप्रकर्षवृत्तित्वाचाऽ. म्भावाभावः।
'वृन्दारकनागकुञ्जरैः ।। ३ । १ । १०८ ॥ वृन्दारकादीनामिति-ननु वृन्दारकादयो जातिशब्दा न ते सदादिवत्पूजावचनाः कथं तैः समासे पूजा गम्यत इत्याह- 20 उपमानादिति । अयमर्थः-वृन्दारकादिगताः केचित्पूजानिमित्ता गुणाः स्वप्रवृत्तिनिमित्तैकार्थसमवायितया वृन्दारकादिशब्दैरुच्यन्ते । एवं वृन्दारकादिगुणप्रतिपादनपरे प्रयोगे उपमानगत्या पूजा गम्यत इत्यर्थः । सुसीमो नाग इति-अत्र सुसीम: संज्ञाशब्दस्तस्य नागेनाऽभिधेयं परिच्छिद्यते न तु पूजा प्रतिपाद्यत इत्याह-नाऽत्रेत्यादि । इदं तु पूर्वैर्दर्शितत्वाद्दर्शितं, परमार्थतस्तु नेदं प्रत्युदाहरणम् । यदुपाध्यायः-सुसीमो 25 नाग इति त्वनागस्य सुसीमत्वाभावात् सुसीमस्य नागविशेषसंज्ञत्वाद्विशेषणविशेष्यस्वाभावान्न प्रत्युदाहरणमिति । अत एव द्वितीयं प्रत्युदाहियते देवदत्तो नाग इव मूर्ख इति, हस्तीव मूर्ख इत्यर्थः । अत्रोपमानेनाऽपि निन्दैव गभ्यते न पूजा । कुञ्जरशब्दस्य तु व्याघ्रादिपाठे प्रयोजनं चिन्त्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org