________________
( १९० ) द्विगुसंज्ञाः स्युः ततः परमा नौः परमनौरिति " नावः” इति समासान्तः स्यात् । समाहारे दिक शब्दो न समस्यते ।
'निन्धं कुत्सनैरपापायैः'।३।१।१००॥ कुत्सितो ब्राह्मण इति-नहि ब्राह्मणः कुत्सनवचनः । अपि तु कुत्स्य एवेति व्यावृत्तिबलान समासः । ब्राह्मण5 श्वाऽसौ कुत्सितश्चेत्यपि कृते कुत्सितशब्दस्य पापाद्यङ्गीकारादनेनापि समासो न ।
'उपमानं सामान्यैः ।। ३ । १। १०१ ॥ नियमार्थमिति-शस्त्रीश्यामेत्या. दावपि गुणमुपादाय प्रवर्तमानेन शख्यादिना श्यामादेविशेषणाच्छयामशस्त्रीत्युक्तेऽपि साधारणधर्मप्रतीत्यभावादुपमानस्य समासे पूर्वनिपाते च सिद्धे विधिरारभ्यमाणो
विध्यसम्भवानियमार्थो भवति । 10 'उपमेयं व्याघ्राद्यैः साम्यानुक्तौ'। ३ । १ । १०२॥ शब्दः प्रयुज्यत
इति-यदा प्रकरणादिवशानियतसाधारणगुणप्रतिपत्ती व्याघ्रादिशब्दः शौर्यादौ पुरुपार्थे एव वर्तते तदा साम्यानुक्तौ सामानाधिकरण्ये सति समासो भवति । यदा तु गुणान्तरव्यवच्छेदाय विशिष्टसाधारणगुणप्रतिपत्तये शूरादिशब्दप्रयोगस्तदा साम्या
नुक्तिग्रहणात्समासाभावः । पुरुषव्याघ्रः शूर इति-नन्वत्र व्याघ्रपदस्य शूरपदापेक्षया15 ऽपि समासो न भविष्यति किं प्रतिषेधेनेत्याह-इदमेव चेति ।
'पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीरम्' ।३।१।१०३॥ पूर्वपुरुष इत्यादि-दिग्वाचकत्वेऽपि सूत्रोपादानसामर्थ्यात् समासः। न तु दिगधिकमित्यनेन निषेधः । पूर्वपटुरिति-पूर्वशब्दो दिग्योगेन कालयोगेन वा द्रव्यं विशिनष्टि,
पटुशब्दश्च पटुत्वेन । तत्र विशेषणसमासे द्वयोरपि गुणवचनत्वेन विशेषणत्वात् खञ्ज20 कुण्टादिवदनियमेन पूर्वनिपातः स्यात् ।
'श्रेण्यादि कृताद्यैश्व्यर्थे ' । ३।१।१०४॥ एकशिल्पपण्यजीविनां सङ्घः श्रेणिः । व्यर्थे गम्यमान इति-यद्यप्युत्तरपदार्थप्रधानोऽयं समासस्तथाप्युपसर्जनतया व्यर्थोऽपि प्रतीयते । उपसर्जनमपि ह्यों भवति ।
ऊकेति-अवते: “ विचिपुषि०" इति कित्कः । कन्दं स्वेदनिकां मिमीते डे 25 कन्दुमः कान्दविकः । ब्राह्मण इति-ब्रह्म अणतीति कर्मणोऽणि पृषोदरादित्वादकार
लोपे दीर्घत्वे च । यत्र सामर्थ्यमिति-अथ चपलापाकृता इत्यादौ चपलादीनां व्यर्थवृत्तीनामपाकृतादिभिः सामर्थ्याभावात्कथं समास इत्याशङ्का । श्रेणिकृता इत्यादाविति-नन्वत्राऽपि विशेषणविशेष्यभावोऽस्ति यतः कृताः के कर्मतापनाः श्रेणय
१७-३-१०४ । २ उणा० २२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org