________________
( १८९ )
मता कृतेति । अद्रव्यशब्दत्वादिति क्रियाशब्दत्वादिति शेषः । एतच्चोपलक्षणमेकादीनामपि यदा क्रियाशब्देन गुणशब्देन वा सामानाधिकरण्यं तदा पूर्वेण समासे खञ्जकुटादिवत्पूर्वनिपातस्यानियमः स्यादुभयोरपि पूर्वोत्तरशब्दयोर्विशेषणत्वादिति ।
,
दिगधिकं संज्ञातद्वितोत्तरपदे ' । ३ । १ । ९८ ।। दिग्वाचीति - एतदपि च न दिश्येव वर्तमानमपि तु तद्द्वारेण जनपदादौ च वस्त्वन्तर इति अर्थप्रधानो निर्देशः। 5 संज्ञायां तद्धिते चेति - एकाऽपि सप्तम्युत्पन्ना विषयभेदाद्यथालक्ष्यं भिद्यत इति । विग्रहवाक्यमिति-विभिन्नं गृह्यतेऽनेनाऽस्मिन् वा बाहुलकात् " पुन्नाम्नि घः | विग्रहं च तद्वाक्यं च विग्रहवाक्यम् । अथवा विग्रहणं विग्रहस्तस्य वाक्यम् । पूर्वगत्रीप्रिय इति - मतान्तरेणेदमुदाहरणं स्वमते तु अणाद्यन्तान्नाम्नो ङीरुक्ता । अत्र तु पूर्वगवी इत्येवंरूपस्य नामत्वे पूर्वगवीत्यस्य नामत्वाभावे ङीर्न स्यात् ।
८
6
संख्यासमाहारे च द्विगुश्चानाम्न्ययम् ' । ३ । १ । ९९ ॥ पञ्चा इति - सन्निवेशादिविशेषविशिष्टानां पञ्चानामात्राणामियं संज्ञा । फलित एकः पञ्चाम्र इति समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्तन्त इति बहुसंख्याक आम्राद्यभिधाraise पञ्चादिशब्द एकस्मिन्नप्याम्रादौ प्रयुज्यत इति । पञ्चनावप्रिय इति - मतान्तरेऽपि बाहुलकाद्भाधन्ते स्वार्थिकाः क्वचिदित्यतो वा ङीर्न, स्वमते तु अणन्तान्ना - 15 म्नो विहितेति न प्राप्नोत्येव । द्व्यजातः - त्रिमासजात इत्याद्यर्थमुत्तरपदग्रहणं कर्तव्यमेवाऽन्यथा द्विगुविषयाभावात् " कालो द्विगौ च मेयैः " इति समासाप्रवृत्तौ उत्तपदाभावादस्य सूत्रस्याप्रवृत्तिः स्यादतो न वाच्यं तद्वितविषयेऽप्येषु समासो भवि ष्यतीति । पञ्चानां पूलानां समाहार इति समाहारः समूह इति सामूहिकप्रत्ययो न । समासेनैव तस्योक्तत्वात् । ननु समाहारसमूहयोरेकार्थत्वात्तद्धित इत्येव समासो 20 भविता किं समाहारग्रहणेन : अथ तद्धितोत्पत्तिः प्राप्नोतीति चेत्, उत्पद्यतां द्विगुत्वात् “ द्विगोरनपत्ये० " इति लुब् भविष्यतीति न काचिद्धानिरिति, सत्यम्; पश्चकुमारि इत्यादौ " यादेर्गौणस्य ० " इति इयादेर्लोपः स्यात् । पञ्चगवमिति - " वञ्जलेरलुक: ” इत्यधिकृते “ गोस्तत्पुरुषात् " इत्यट् न स्यात् । अर्धपञ्चमपूलीति - संज्ञातद्धितोत्तरपदेषु नित्यसमासः । समाहारे तु विकल्पस्तत्र वाक्यमपि हि भवति । अ- 25 र्धपञ्चमात्पञ्चपूलानां समाहार इति । समावेशार्थ इति - तेन गोस्तत्पुरुषात्पञ्चसर्वविश्वा दित्यादि सिद्धम् । अयं ग्रहणमिति - यद्ययमिति सूत्रांशो न स्यात्ततो यथा कर्मधारयश्चेत्यनुवर्तते तथा द्विगुश्चेत्यण्युत्तरत्राऽनुवर्तेतेति वक्ष्यमाणा अपि समासा
१५-३-१३० । २ ३-१-५७ । ३ ६-१-२४ । ४ २-४-९५ । ५ ७-३-१०१ । ६ ७-३-१०५ ।
Jain Education International
10
For Private & Personal Use Only
www.jainelibrary.org