________________
( १८८ ) समग्रेऽपि मासे देयमिति यदि विवक्ष्यते तदा " कालाध्वनोाप्तौ” इति द्वितीया स्यात् । मासदेयमिति-मासस्य पूरके त्रिंशत्तमे दिने देयमित्यर्थः । अयमपि नित्यसमासो यतो न समासेऽवश्यं शब्दस्य प्रयोग इति न्यासः । “ तत्पुरुषे कृति " इत्य
लुप्प्राप्तौ बाहुलकात् सप्तम्या लोपः । निरनुबन्धन्यायात् क्यब्ध्यणोपॅहणाभावे मासे 5 स्तुत्येत्यादौ न समासः।
'विशेषणं विशेष्येणैकार्थं कर्मधारयश्च' । ३ । १ । ९६ ॥ वृत्तिरैकार्थ्यमिति-एकः साधारणोऽर्थो द्रव्यलक्षणस्तदतदात्मको यस्य तदेकार्थ तस्य भाक। शिंशपा वा भवतीति-न च वाक्येऽपि तर्हि वृक्षादिप्रयोगो न स्यादिति वाच्यम् । द्वौ द्विरदावितिवद्गतार्थस्याऽपि लोके प्रयोगदर्शनात् । यद्वा पूर्व वृक्षप्रयोगात् सामान्यावगते10 विशेषावगमाय शिंशपेति प्रयुज्यते । एवं च तक्षकाहिरिति-यतस्तक्षकशेषशब्दावहि
गुणादावपि वर्तते । तक्षकः सर्प इत्यादौ तु तद्गुणविवक्षायामपि बाहुलकान भवति । विशेषणविशेष्यद्वयोपादानं हि बाहुलकप्रपश्चार्थम् । प्राधान्यं च द्रव्यं शब्दानामितिनीलादि अन्याश्रितत्वादप्रधानमुत्पलं तु तस्याऽऽश्रयत्वात्प्रधानम् उत्पलं हि द्रव्य
रूपत्वात्क्रियासिद्धये साक्षादुपयुज्यमानं प्राधान्येन विवक्ष्यते । नीलस्तु गुणत्वाद्रव्य15 व्यवधानेन क्रियायामुपयोगादुत्पलस्य विशेषणं सम्पद्यत इति । ननु प्राधान्यं च द्रव्य
शब्दानामित्युक्तमुत्पलादयस्तु जातिशब्दास्तत्कथमित्याह-यद्यपीति । यस्तु गुणादीतिआदिशब्दाद्रव्यक्रिययोग्रहः। क्रिया पाचक इत्यादिका दर्शितैव । द्रव्यं यथा दण्डी चाऽसौ धन्वी चाऽत्राऽपि पूर्वनिपाते कामचारः । पदयोरप्रधानत्वादिति-द्रव्यव्यवधानेन क्रियामुपयोगात् । पूर्वोत्तरेति-रविपरिवर्तनसंयोगेन दिश उच्यन्ते, अतोत्राऽपि गुणः 20 प्रवृत्तिनिमित्तम् । पूर्वदक्षिणा विदिगिति-विदिगित्युपलक्षणं तत्सम्बन्धिन्यन्यत्रापि
देशादौ भवति । जातिशब्दानामिति-यद्येवं कथं कृष्णसर्पशब्दयोः सामानाधिकरण्यं द्वयोरेव तयोर्जातिविशेषवाचकत्वादिति । समावेशार्थ इति-यदि च चकारस्तत्पुरुष इत्यस्याऽनुकर्षणार्थ इत्युच्येत तदा चाऽनुकृष्टं नोत्तरत्र इति विज्ञायेत ।
'पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ' । ३ । १ । ९७ ॥ पूर्वकालेत्यस्य 25 कृतद्वन्द्वैरेकादिभिर्द्वन्द्वः । यदि पुनरेकादिभिरकृतद्वन्द्वैः पूर्वकालेत्यस्य द्वन्द्वः क्रियेत
तदैकशब्दस्य स्वराद्यदन्तत्वात् पूर्वनिपातः स्यात्तथा च सर्वेषामेकरूपतायां स्वरूपग्रहणे पूर्वकालेत्यर्थनिर्देश इति यद्वक्ष्यते तदुपपन्नं स्यात् । मतीकृतेति-मतमस्या अस्तीति मतिनी क्षेत्रभृमिः । अमतिनी मतिनी कृतेति च्चो वद्भावे दीर्घत्वे च मतीकृता । अथवा मतं लोष्टमर्दनकाष्ठं तदस्याऽस्ति अभ्रादित्वादप्रत्ययः, ततोऽमता
१२-२-४२ । २ ३-२-२० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org