________________
( १८७ )
शौण्ड इत्युच्यते व्यसनी तु गौणवृत्या । आपतनं भावे घञ, आपात आरम्भे रमणीय - आपातरमणीयः ।
' काकाद्यैः क्षेपे ' । ३ । १ । ९० ॥ तीर्थसारमेय इति सारो मेयोऽस्य यद्वा सरमा शुनी तस्या अपत्यं “ चतुष्पाद्भ्य एयञ् | अनवस्थित इति यथा काकादिस्तीर्थफलमजानन् अचिरस्थायी भवत्येवं यो देवदत्तादिः कार्याण्यारस्य तेष्वनि- 5 वहः स एवमुच्यते ।
पात्रेसमितेत्यादयः ' । | १ | ९१ || गेहे क्ष्वेडीति - ञिमिदा इति धातौ क्ष्विदः स्थाने विडं केचित्पठन्ति । गेह एव क्ष्वेडते " ग्रेहादिभ्यो णिन् " एवमग्रेतनद्वये । गेहमेव विजितमनेनेति “ व्याध्ये तेन " इत्यनेन क्तप्रत्ययान्तात् यस्तद्धित इन् तदन्तस्य व्याप्ये वर्तमानात्सप्तमी विहितेति प्रथमान्तेन विग्रहः । यद्वा 10 अर्थकथनमिदं गेहे विजितीत्येव क्रियते । अवधारणेनेति - पात्रेसमिता इत्यत्र पात्रशब्देन पात्रसहचारिभोजनं लक्ष्यते ततो भोजन एव समिता मिलिताः सन्ति न कार्यान्तरे इत्यवधारणात् क्षेपो गम्यते । सप्तम्या अलुविति - ननु पात्रेसमितेत्यादिकृत्प्रत्ययान्तेषु " तैंत्पुरुषे कृति " इति शेषेषु तु " अद् व्यञ्जनात् इत्यलुप् प्राप्तस्तत्किं निपाताश्रयणेन ? सत्यम्, ताभ्यां बहुलं संज्ञायां चाग्लुबुक्तेत्याह-निपा- 15 तनादिति ।
"
' क्तेन ' । ३ । १ । ९२ ।। नित्यसमासाचैते इति वाक्यस्य क्रियाकारकसम्बन्धमात्रप्रत्यायकतया क्षेपप्रतिपादने सामर्थ्याभावात्समासस्यैव तत्र सामर्थ्यात् ।
66
तत्राsहोरात्रांशम् ' । ३ । १ । ९३ ॥ पृथग्योगादिति - तत्राऽहोरात्र शं च केनेति चकारादन्यच्च नाम । तत्रेति सप्तम्यन्तमिति - सप्तमी साधर्म्यात्रप् प्रत्ययोऽप्यत्र 20 सप्तमीशब्देनोक्तः । भवति हि साधर्म्यात्ताच्छन्द्यं यथा गौर्वाही क इति ।
6
"
6
नाम्नि ' । ३ । १ । ९४ ॥ सप्तम्या अलुबिति, अरण्येतिलका इत्यादिषुअव्यञ्जनात्० " इत्यनेन स्तूपेशाण इत्यादिषु तु " प्राकारस्य० " इत्यनेन ।
C
कृद्येनावश्यके ' । | १ | ९५ ।। मासेऽवश्यमिति- “यँद्भावो भावलक्ष
"
म्” इति सप्तमी मासे गते देयमिति हि मासादिभवेन देयभावो लक्ष्यत इति । 25 अथवा मासाद्येकदेशे मासादिशब्द इत्याधार एव सप्तमी । अन्यथा उपचारं विना
१६-१-८३ । २५-१-५३ । ३२-२-९९ । ४३-२-२० । ५३-२-१८ । ६३-२-१९ । ७२-२-१०६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org