________________
( १८६ ) माने काले विहितोऽयं क्तप्रत्ययः किन्तु भूते काले । तथा राजपूजित इत्यादावपि । तृतीया समासा इति-अत्र भूते क्तविधानात् “ क्तयोरसदाधारे” इति षष्ठीनिषेधातृतीया समासा इत्यर्थः । कृयोगजाया इति-कर्तृकर्मविहिताया इत्यर्थः ।
'अस्वस्थगुणैः' । ३ । १ । ८७ ॥ स्वात्मन्येवाऽवतिष्ठन्त इति-ननु द्रव्या5 श्रयी गुण इति गुणलक्षणं ततः कथमिदमिति ? सत्यम् , अभिधाव्यापारापेक्षया स्वस्थत्वं गुणानां यतः शौक्ल्यादि शब्दैर्धर्म मात्रमेवाऽभिधीयते । अत्राऽर्थात्प्रकरणाद्वेतिननु शुक्लादिवर्णादेविशेषणं, पटस्य शुक्लो वर्ण इति ततश्च पटादेवर्णादिना सम्बन्धो
न तद्गतेन शुक्लादिविशेषणेनेति षष्ठ्यन्तस्य समासप्राप्तिरेव नाऽस्तीत्याशङ्का । __ अस्वास्थ्यमस्त्येवेति-गुगग्रहणेन ये गुगा द्रव्यस्य विशेषणं भवन्ति शुक्लः पट इत्यादौ, 10 ये च भूतपूर्वगत्या ठाणाद्यन्ताः शौक्ल्यादयस्तेऽपि गृह्यन्ते । यतः शुक्लशौक्ल्ययोः
शब्दभेदेऽपि द्वयोरपि एकमेव प्रवृत्तिनिमित्तं गुण इति, द्वावप्येकार्थावस्वस्थौ च य एवाऽर्थः पटस्य शुक्लः स एवाऽर्थः पटस्य शौक्ल्यमिति । एवं मधुरमाधुर्यादीनामपि । नन्वनेनाऽपि व्याख्यानेन पटस्य शुक्ल इत्यादिवेश निषेधः प्राप्तो यतो यथा-शुक्ल:
पट इत्यादौ द्रव्येऽपि वृत्तिस्तथा न शौक्ल्यशब्दस्य द्रव्ये वृत्तिः, यतः शौक्ल्यश15 ब्देन गुणमात्र मेवाऽभिधीयते न द्रव्यम् ?, उच्यते-यद्यपि शौक्ल्यशब्दो द्रव्ये न
वर्तते तथापि शौक्ल्यशब्दो गुणवचनः ततो यदि स्वयं द्रव्यं वक्तुं न शक्नोति तथापि आत्मीय शुक्ल लक्षणेन शब्देन यदि वादयति तर्हि भवत्येव । आत्मीयत्वं चाऽनयोर्गुणमात्रवृत्तित्वात् । यथा कश्चित्पुमान् भार्यायाः पार्थापित्रोभक्तिं कारयति ततो
यद्यात्मना न करोति तथापि भक्तिं कुर्वनभिधीयन्ते एवमत्राऽपि भविष्यति । तद्वि20 शेषेरेवाऽयमिति-तद्विशेषाश्च शुक्लादयो मधुरादयः सुरभ्यसुरमी शीतादयश्च गुणा गृह्य
न्ते । तेषामेव द्रव्यविशेषणत्वसंभवात् , तेन रूपादीनां न ग्रहः । न हि ते द्रव्यस्य विशेषणं भवन्ति पटो रूपं गुडो रसः चन्दनं गन्धः स्तनः स्पर्य इति । रूपादिविशेषा ये शुक्लादयस्त एव गृद्यन्ते तेन गौरवादयः संख्यादयो वैशेषिकप्रसिद्धाश्च न गृह्यन्ते।
वाङ्माधुयेमिति-रसनेन्द्रियग्राह्य एव रसो लोके मधुरशब्दस्य रूढोऽत्र तूपचारादिति न 25 गुडस्य माधुर्यमितिवनिषेधः । यतो गौणमुख्यन्यायेन मुख्यो लौकिको गुणः
समासाभावं प्रयोजयतीति । बहुलाधिकारादिति-ननु कण्टकस्य तैक्ष्ण्यमित्यादौ तैक्ष्ण्यं स्पर्शनेन चक्षुपाऽपि च गृह्यते ततो द्वीन्द्रियग्राह्याणां न गुणत्वं किन्त्वेकेन्द्रियग्राह्याणामेवेति वैशेषिकमतं, ततः समातः प्राप्तः। कुसुमसौरभमित्यादौ च पटस्य शौक्ल्यमितिवत्समासाभावप्रसङ्गस्तदेतदुभयं कथमित्याशङ्का ।
'सप्तमी शौण्डायैः' । ३।१।८८ ॥ इह गौण इति-परमार्थतो मद्यपः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org|