________________
( १८५ ) 'कृति'।३।१।७७ ॥ चौरोजासनमिति-" कर्मणि कृतः ” “ कर्तरि " वाऽस्य विधानात् यत्नजाया अपि षष्ठ्याः समासः ।
'याजकादिभिः'।३।१।७८॥ कृतीत्यनेनैव सिद्धे किमर्थोऽयं योग इत्याह " कर्मजा तृचा च " इतीति । विध्यर्थश्चेति-तुल्याथैरिति या षष्ठी सा शैषिका न भवतीति अप्राप्तौ ।
'सर्वपश्चादादयः । ३ । १। ८० ॥ प्रतिपेधं वक्ष्यतीति-यदा सम्बन्धषष्ठी तदेत्यर्थः । तत्र सम्बन्धषष्ठीग्रहणात् । उपलक्षणमिदं तेन यदा रिरिष्टादिति षष्ठी तदाऽप्राप्त समासः।
'अकेनक्रीडाजीवे'।३।१।८१ ॥ "कर्मजा तृचा च" इत्यस्याऽपवादस्ततच भनक्तीति भञ्जिका, उद्दालपुष्पाणां भञ्जिकेति कृते “ कृति" इति प्राप्नोति 10 तत उत्तरेण निषेधस्तदाऽस्य सूत्रस्य फलम् । यदा तु उद्दालकपुष्पाणि भज्यन्ते यस्यां क्रीडायामिति विग्रहस्तदा निषेधाभावे कृतीत्यनेनैव सिद्धत्वादस्य न किश्चित्फलम् । ननु भनक्तीति भञ्जिकेति कर्तरि कथं साधयन्ति यथा उद्दालकपुष्पभजिकेति क्रीडानाम ततस्तस्याः कर्तृत्वं न सङ्गच्छते ? उच्यते-अस्यां क्रीडायां भञ्जनक्रियाकरणादुपचारात् साऽपि की भण्यते । __ 'न कर्तरि'।३।१। ८२ ॥ अग्रगामिकेति-कृत्सगतिकारकस्येति न्यायादग्रगामिकेत्यस्याऽपि कृदन्तत्वम् ।
'कर्मजा तृचा च' ।३।१। ८३ ॥ तच्चाऽकस्येति-तृचोऽव्यभिचारात् । क्रियाशब्दस्य विति-बिभर्तीति भरणक्रियामात्रमुपादाय वर्तमानस्येत्यर्थः ।
'तृप्तार्थपूरणाव्ययातूशशत्रानशा' ।।१। ८५ ॥ ग्रामस्य पुरस्ता- 20 दिति-अव्युत्पन्नमव्ययं व्युत्पत्तौ तु “ रिरिष्ट्रा० " इति षष्ठ्या विधानात् समासो न प्राप्नोत्येव । अध्वगानामिति-अत्रापि सम्बन्धे षष्ठी न निर्धारणे तस्य सतोऽप्यविवक्षा अनियमेन पूर्वनिपातः स्यादिति-" पैष्ठ्ययत्ना० " इत्यत्र विशेषणविशेष्ययोईयोरपि प्रथमोक्तत्वात् विशेषणसमासे तु प्रधानानुयायिनो व्यवहारा इति न प्राग्निपातः।
'ज्ञानेच्छा धारक्तन' । ३ । १ । ८६ ॥ सर्वत्र कर्तरि षष्ठी । सत्याधारे 25 च क्तविधानात् " तयोरसदाधारे " इति षष्ठ्या न निषेधः । इष्टेनेति-" तेन प्रोक्ते" इत्यतस्तृतीयाधिकारे यदुपज्ञात इत्यर्थे यथाविहितं प्रत्ययं विधत्ते तज्ज्ञापयति न वर्त
16
१२-२-८३ । २ २-२-८६ । ३ २-२-८२ । ४ ३-१-७६ । ५ २-२-९१ । ६ ६-३-१८१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org