SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ( १८४ ) स्ययोगात् पुरुषोऽपीषत् स चाऽसौ पिङ्गलश्रेति कर्मधारयेण सिध्यति । यतस्तत्र पूर्वनिपाते कामचारः । ईषच्छब्दात् क्रियाविशेषणत्वादम् । उन्नतरक्तशब्दावौणादिकौ " पुतेपित्त० " इति साधू ततो गुणवचनौ । क्ते तु क्रियावचनौ स्याताम् । समासान्तराणीति - अन्यथा “ नामे नाम्नै ० " इत्यनुवर्तमाने कोपेन इषद्रक्त इति त्रिपदो न स्यात् । 5 'तृतीया तत्कृतैः ' । ३ । १ । ६५ ।। प्रत्ययः प्रकृत्यविनाभावीति तृतीयान्तं नामेह गृह्यते । अत एवेति - गुणवचनत्वाभावादेवेत्यर्थः । ( ऊनार्थपूर्वायै: ' । ३ । १ । ६७ ।। हेत्वादाविति - आदिशब्दात्तुल्यार्थैरित्यादि । एकेन द्रव्यवच्चमिति - एकं च तद्रव्यं चेति कर्मधारये एकद्रव्यमस्याऽस्तीति कृते " एैकादेः कर्मधारयात् " इतीकण् स्यादित्येवं समासः । " 10 कारकं कृता' । ३ । १ । ६८ ।। काकपेया नदीत्यादिषु निन्दा सुगमैवेति न दर्शिता । तेन सहेत्यर्थ इति एवं शिखया परिव्राजक इतीत्थम्भूतलक्षणेऽप्यनुक्तमपि ज्ञेयम्, अनीयप्रयोगोऽपि द्रष्टव्यः । 6 ' चतुर्थी प्रकृत्या ' । ३ । १ । ७० ॥ इन्धनाय स्थालीति - यथा यूपाद्यात्मना - दार्वादि प्रतिष्ठमानं यूपादेः प्रकृतित्वेन विज्ञायते नैवं रन्धनादेः स्थाल्यादीति । मूत्राय 15 सम्पद्यत इति - यद्यप्यार्थ्या विधेयतया मूत्रस्य प्राधान्यं तथापि शाब्द्या प्रथमं arrar सह क्रियासम्बन्धः, यथा - राज्ञः पुरुष इति आर्ध्या राज्ञः प्राधान्येऽपि शाब्द्या पुरुषस्यैव । हितादिभिः ' । ३ । १ । ७१ ॥ गोभ्यो हितमिति - आशीर्विवक्षायां तु तद्भद्वायुष्य ० " इति चतुर्थी आशंसायां हितयोगे या चतुर्थी तदन्तस्य समासो न 20 भवति समासादाशिषोऽनवगमादिति । आत्मनेपदमिति - - पचत इत्येवमादीनामात्मा स्वभावस्तदर्थं ते आते इत्यादि आत्मनेपदम् | तिवाद्यवयवापेक्षया प्रकृतिप्रत्ययसमुदायः पचतीत्यादिलक्षणः परोऽर्थस्तदर्थं तिवादिकं पदं परस्मैपदम् । "" 6 ' तदर्थार्थेन ' | ३ | १ | ७२ || तस्याश्चतुर्थ्या अर्थो यस्येत्युष्ट्रमुखादित्वाद् व्यधिकरणो बहुव्रीहिस्ततस्तदर्थ वाऽसावर्थश्चेति कर्मधारयः । समासस्त्विति - पित्रर्थ इ25 त्यादि - समासे अर्थशब्दप्रयोग इत्यर्थः । 6 षष्ठ्य यत्नाच्छेषे ' । ३ । १ । ७६ ।। गमकत्वादिति - अवश्य सापेक्षत्वादित्यर्थः । १ उणा० २०४ । २३-१-१८ । ३७-२-५८ । ४२-२-६६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy