________________
( १८३ )
ततत्रिपदे समासे जाते सुप्त इत्युत्तरपदे परे “ संख्या समाहारे च० इति द्विगुसंज्ञायां द्विगुविषये द्वयोः पदयोरुत्तरपदनिमित्ते द्विगौ भाविनि त्रयाणां तत्पुरुषः, अन्यत्र प्रयोजकमिति - अन्यत्र चरितार्थमित्यर्थः । द्विगौ तु द्विवचनाद्यन्तमपि समस्यते इति भावः ।
-
' स्वयंसामी तेन' | ३ | १ | ५८ || करणशक्तेः कर्तृशक्तेर्वा वाचकः स्वयं 5 शब्दः | आत्मनेत्यर्थ इति अत्र करणे कर्तरि वा तृतीया । सामिकृतमित्यत्र - विशेषणं विशेष्येणै० " इत्यनेन कर्मधारयेणैव सिध्यति परं यदृच्छया पूर्वापरभावः स्यात्तद्बाधनार्थमिहोपादीयते ।
("
4
द्वितीया खवा क्षेपे ' । ३ । १ । ५९ ।। क्षेपः समासार्थ इति तत्रैव तस्य प्रसिद्धेः । नित्य एवेति यत्तु खट्टामारूढ इति वाक्यं तत्पूर्वोत्तरपदविभागमात्र दर्शनार्थम् | 10
-
(
कालः ' । ३ । १ । ६० ॥ कालयति भूतानि अच् । अव्याप्त्यर्थ इतिअहोरात्रेश्च तैर्व्याप्यभावात् । मासप्रमित इत्यत्र च प्रथमो दिवसः प्रतिपच्चन्द्रमसा व्याप्तो न तु समग्र मास इत्युत्तरेण न प्राप्नोति ।
ܕܪ
' व्याप्तौ ' । ३ । १ । ६१ ॥ तेनेति निवृत्तमिति । पृथग्योगादिति शेषः । सर्वरात्र कल्याणीति - यद्यपि सर्वशब्दो न कालवृत्तिस्तथाप्युत्तरपदार्थप्रधानत्वेन 15 समासस्य सर्वरात्र इति समुदायोऽपि कालः । मासं पूरक इति पूरयिष्यतीति " क्रियायां क्रिया० " इति णकचि णके तु " कर्मणि कृतः " इति षष्ठी स्यात्, णकचि तु " नुदन्ता० " इति निषेधात् न ।
-
[
श्रितादिभिः ' । ३ । १ । ६२ ।। यद्यपि बहुव्रीहिणैव धर्मश्रित इत्यादीनि सिध्यन्ति तथापि यत्तत्पुरुषं शास्ति तज्ज्ञापयति यत्र समासेऽर्थे विग्रहभेदात्तत्पुरुष - 20 बहुव्रीही प्राप्नुतस्तत्र तत्पुरुष एव । तेन राजसरव इत्यादौ न बहुव्रीहिः । किश्च बहुव्रीहौ कच् स्यात् । निर्वाणगत इति - के निर्वाति सुखी भवत्यत्रेत्यनटि वा ।
,
' प्राप्तापन्नौ तयाच | ३ | १ | ६३ ।। प्राप्ता जीविका ययेत्यादि बहुत्रीहिणाsपि सिध्यति, प्राप्तगवीत्यादौ तु समासान्तो न स्यादिति वचनम् । स्त्रीलिङ्गार्थमिति - ख्यैकार्थ्योत्तरपदाभावात् "परतः स्त्री०” इति पुम्भावो न प्राप्नोतीत्यत्करणम् । ॐ
"
ईषद्गुणवचनैः ' । ३ । १ । ६४ ॥ गुणं वचन्तीति रम्याद्यनटि गुणव
चनाः । ईषत्पिङ्गल इति - पिङ्गत्वमस्याऽस्ति सिध्मादित्वाल्लः । न च वाच्यमीपत्पिङ्ग
१३-१-९९ । २३-१-९६ । ३५-३-१३ । ४ २-२-८३ । ५२-२-९० । ६ ३-२-४९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org