________________
( १८२ )
----
" सायाह्लादयः 1 । १ । ५३ ।। स्यतेर्घञ औणादिको वा सायशब्दो, मान्तमव्ययं वा । सायम इति ननु सायम्शब्देनाsहरन्त उच्यते इत्युक्तार्थत्वात् सायम इति विग्रहन् शब्दस्य प्रयोगो न प्राप्नोति ? सत्यम्, दिनान्ते यानि कार्याणि क्रियन्ते तान्यप्युपचारात् सायम् शब्देनोच्यन्ते; ततः सन्देहः किं कार्याण्य5 भिधीयत उत दिनान्त इत्यहन् शब्दः प्रयुज्यते । सूत्रसामर्थ्याद्वा तस्माच्च दिनान्त एव लभ्यते । षष्ठीसमासबाधनार्थमिति - ननु तावदिह सायंशब्दस्याऽव्ययत्वात् तृप्तार्थ ० " इति निषेधादेव भविष्यति किं तद्बाधनार्थमनेन ? उच्यते - यदाऽकारान्तः सायशब्दोऽनव्ययं नपुंसकलिङ्गस्तदा प्राप्नोति ।
66
"
'समेंशेऽर्धं नवा' । ३ । १ । ५४ ।। अर्ध पिप्पल्या - इत्यत्राऽर्धशब्दस्य 10 तुल्यभागेऽर्धमिति क्लीवत्वम् । अर्धपिप्पलीति समुदायस्य तु परलिङ्गो द्वन्द्रोऽशीतिवचनात्स्त्रीत्वमेवमुत्तरत्र | अतुल्यभागे तु ग्रामार्ध इत्यादावर्धसुदर्शनेति पुंस्त्वम् । षष्ठीसमासबाधनार्थमिति-अयमर्थः- सूत्राभावे भेदाभेदविवक्षायां प्रयोगद्वयं सिध्यति । सूत्रकृतौ तु भेदविवक्षाया मेत्रपक्षे षष्ठीसमासं बाधित्वा प्रयोगद्वयं सिद्धम्, अन्यथा भेदे षष्ठीसमास एव स्यात् । अर्द्ध पिप्पलीनामिति - पिपल्याख्यस्यां शिनोऽनेकद्र15 व्यस्वभावत्वादभिन्नत्वाभावात् समासाभावः । षष्ठीसमासस्तु भवत्येव पिप्पल्यर्धमिति । प्रकरणादिना बहुत्वस्याऽप्यवगतेर्बहुवचनान्तस्याऽपि प्रवृत्तिरविरुद्धा ।
6
जरत्यादिभिः ' | ३ | १ | ५५ || अर्धवैशसमिति - 'शस्' हिंसायाम्, विशसनं “ कुँत्सम्प० " विशसेव प्रज्ञाद्यण्; अर्धो वैशसस्याऽर्धमरणमित्यर्थः ।
"
'द्वित्रिचतुष्पूरणाग्रादय' | ३ | १ | ५६ || पञ्चमं भिक्षाया इति - पष्ठी20 समासोऽपि वाग्रहणेन यस्यैवाऽयमंशिसमासस्तस्यैव प्राप्नोतीति न भवतीति । द्वितीयं भिक्षाणामिति - - अत्र वहुत्वाद्भिक्षा भिन्ना |
'कालोद्विगौ च मेयैः ' । ३ । १ । ५७ ॥ अंशांशिनिवृत्ताविति - कालमे यैरित्यभिनवार्थग्रहणात् । जातोत्तरपदानि मासजात इत्यादीनि बहुव्रीहावपि सिध्यन्ति । परं मासो मृतस्य मासमृत इत्यत्राऽन्यपदार्थासम्भवात् द्विगौ च द्व्यसुप्त इत्यादा25 विति वचनम् । शब्दशक्तिस्वाभाव्यादिति - अन्यथा मासो जाताया इति स्त्रीत्वविवक्षायां मासजातेत्यत्र ह्रस्वत्वं स्यात् । पूर्वपदप्राधान्याच्च पश्चादाब् न स्यात् । द्वे अहनी सुप्तस्येति द्वे इति चाऽहनी इति च नामद्वयं सुप्तस्येति नाम्ना समस्यते ।
१३-१-८५ । २५-३-११४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org