________________
( १८१ ) 'अव्ययं प्रवृद्धादिभिः ' ।३।१।४८॥ पुनः प्रवृद्धमिति-पुनः प्रवर्धते स्मेति कार्य न तु भूयः प्रवृद्धमिति तस्याऽप्यव्ययत्वादनेनैव नित्यसमासत्वात्समुदायस्यैवाऽयं पर्यायो भवति । एवमुत्तरेष्वपि । अधस्पदमिति-अधःस्थाने पदमित्येव कार्य न वधस्तादिति तस्याऽप्यव्ययत्वात् । ससंशयः पुरुषः अनद्वापुरुषः। ___'स्युक्तं कृता'।३।१।४९॥ कृदन्तेनेति-प्रत्यासत्यातत्सूत्रविहितेनैव। 5 आपः प्राप्ताविति-आप् किल स्त्रीत्वमात्रनिमित्तः । स्यादिस्तु संख्याकर्मादिनिमित्तः ।
'तृतीयोक्तं वा'।३।१।५०॥ वाशब्द इति-इह पृथग्योगादेव नित्यत्वस्य निवृत्तिर्वा शब्दस्तु नित्यसमासाधिकारनिवृत्त्यर्थ इति ।
'न।३।१।५१ ॥ ननु न इत्येव निरनुबन्धः पठ्यतां किं सानुबन्धेन नजित्युपादानेन ? सत्यम् । चादिषु अकारोपदेशं सारयितुं अकारो निद्दिश्यते, प्रति. 10 षेधशङ्काव्युदासार्थ च; नेत्युक्ते हि समासस्य प्रतिषेधः सम्भाव्यते । अगौरिति-ना विशेषित आरोपितगवादिस्वरूपो गवयादिरित्यर्थः । निवर्त्यमानतद्भाव इति-निवर्त्यमानो यस्तस्योत्तरपदस्य भाव उत्तरपदप्रवृत्तिनिमित्तं गोत्वब्राह्मणत्वादि तद्वानिहाऽर्थ उत्तरपदस्यैवाऽर्थः । नसमासस्याऽपि निवृत्तिविशिष्टोत्तरपदार्थप्राधान्यमित्यर्थः । स चाऽयमिति-उत्तरपदार्थ इत्यर्थः । प्रतीयत इति-सर्वत्र शब्दशक्तिस्वाभाव्यादिति 15 योज्यम् । नन्विदं सूत्रं विनाऽप्यब्राह्मण इत्यादयो विशेषणमित्यनेन कर्मधारयेऽपि सेत्स्यन्ति, यतो नविशेषणं ब्राह्मणो विशेष्यमिति ? उच्यते-यत्र द्वौ गुणशब्दौ भवतस्तत्राऽनियमेन पूर्वनिपातः प्राप्तः, यथा-अखञ्जः, न निषेधमात्रे वर्तते खञ्जशब्दोऽपि गुणमात्रे इत्यनियमेन प्राप्नोतीति वचनम् । ___ 'पूर्वापराधरोत्तरमभिन्नांशिना' । ३।१।५२ ।। पूर्वः कायस्येति-पूर्वो 20 भागः कस्मानाभ्यादेः कस्य कायस्येति सम्बन्धादिक्पश्चमी कायशब्दान्न भवति । पूर्व छात्राणामिति-बहुवचनाद्भेदप्रतीतिः, छात्राणां सम्बन्धिनं कस्मादपि छात्रात् पूर्वमित्यर्थः । प्रसज्यप्रतिषेधः किमिति-यद्यत्राभिन्नेन भवतीति पर्युदासः स्यात्तदा समाहारस्यैकत्वादत्रापि समासः स्यात् । भिन्नेन न भवतीति प्रसज्यप्रतिषेधे तु विज्ञायमाने समाहारद्वन्द्वस्य भेदपूर्वत्वाद्भेदनिमित्तः प्रतिषेधोऽपीति समासाभावः। अंशिनेति 25 किमिति-ननु नाभेर्यः पूर्वो भागो व्यवस्थितः कायस्य शोभनो रिक्तो वेत्याद्यर्थोऽत्र विवक्षितस्तत्र पूर्वस्य कायापेक्षत्वेनाऽसमर्थत्वादेव नाभ्या सह समासो न प्राप्तः किम शिवर्जनेन ? । सत्यम् । यद्यपि कायापेक्षत्वं पूर्वस्य तथापि प्रधानसापेक्षत्वे वृत्तिर्भवतीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org