________________
( १९७ )
समानामित्यनर्थकं स्यात् । इहैकशेषे षट् पक्षाः सम्भवन्ति-तत्र प्रत्येकमेकविभक्तो परतो विभक्तिपरित्यागेन नामैकशेषः स्यात् १, अथवा सविभक्तिकानां वृक्षस् वृक्षस् इति स्थिते एकस्य वृक्षस् इत्यस्य शेषः २, अथवा वृक्षश्च वृक्षश्च वृक्षश्चेति द्वन्द्वे कृते सत्येकस्य, वृक्ष इत्यस्य शेषः ३, अथवा विभक्तिमनुत्पाद्यैव नाममात्रेण वृक्षवृक्षेत्येवंविधानामेव शेषः कार्यस्ततो विभक्तिः ४, अथवा सहोक्तौ वृक्षश्च वृक्षश्चेति 5 द्वन्द्वे प्राप्ते एक शेषः ५, अथवा नामसमुदायस्यैवाऽर्थवत्वान्नामसंज्ञायां द्विवचनाद्युत्पत्तौ एक शेषः६, इति षट्पक्षाः। तत्राऽऽद्यं पक्षत्रयं सावद्यकमिति तत्परिहारेणेतर. त्पक्षत्रयमिहाऽऽश्रीयते । तथाहि तत्र प्रथमे पक्षे नामैकशेषेऽनेकविभक्तिश्रवणं स्यादिति प्रथमपक्षे दोषः। द्वितीये विभक्त्यन्तस्य लोपे कृते विभक्तभ्रातृधनन्यायेन शिष्यमाणस्य निवर्तमानपदसंख्यासम्बन्धेऽपि विभक्त्यन्तत्वाद् द्विवचनबहुवचनानुप- 10 पत्तिः स्यात् , ततश्च वृक्ष इति नित्यमेव स्यादिति द्वितीयपक्षदोषः । तृतीये तु समासा. न्तदोषः । तथाहि ऋक् च ऋक चेति द्वन्द्वे तत एक शेषे "चंवर्गदषह०" इति समासान्तः स्यादिति प्रथमपक्षत्रयं दुष्टम् । इतरत्र तु पक्षत्रये न कश्चिद्दोषः। तथाहि वृक्ष वृक्ष इति स्थितानां नाम्नां विभक्तिमनुपाद्यैवैकशेषप्रवृत्तिरिति प्रथमपक्षो निर्दोषः तुल्यकालं नामानि यदा भारोद्यन्तृन्यायेन परस्परशक्त्यनुप्रवेशादभिधेयमाहुस्तदा द्वन्द्वैक- 15 शेषाविष्टाविति द्विवचन बहुवचनं चोपपन्नमिति द्वितीयेऽपि न कोऽपि दोषः । तृतीयपक्षे न कश्चिद्दोषः । नामसमुदायस्यैवाऽर्थवत्त्वान्नामत्वाद्विभक्युत्पत्तेरिति सोऽपीहाऽऽश्रीयते इति पक्षत्रयेऽपि द्वन्द्वः प्राप्तोऽनेनाऽपोद्यते इत्याह-द्वन्द्वापवादो योग इति ।
'स्यादावसङ्ख्येयः' । ३।१।११९ ।। सरूपार्थमिति-अन्यथा अर्थसाम्यस्य स्यादावप्यभिद्यमानत्वात् पूर्वेणाऽपि सिध्यति । पादा इति-पादों हिश्लोकचतुर्थी- 20 शरश्मिप्रत्यन्तगिरिषु । माषो माने धान्यभेदे मूर्ख त्वग्दोषभिद्यपि । औकारे रूपं भिद्यत इति-अयमर्थः-" तृस्वमृ०" इति सूत्रे तृग्रहणेनैव नप्तादिग्रहणे सिद्धे यनवादीनां पृथगुपादानं तदेवं ज्ञापयति । अत्र सूत्रे औणादिकानामेतावतामेव ग्रहणमेव, जननीदेवरजायावाचिनोर्मात्यातृशब्दयोरोणादिकयोसैकारे आर् न प्राप्नोति, द्वितीययोस्तु हजन्तयोस्तुद्वारा प्राप्नोतीति रूप मेदः। वाचावित्यादीति-अत्र समाहारद्वन्द्ववि- 25 षयेऽप्येकशेषे वागशब्दाद् द्विवचनमेव भवति। कुतः " क्लीबमन्येनैकं च वा” इत्यत्र समाहारेतरविवक्षया विकल्पेनैकत्वे सिद्धेऽप्येकग्रहणात् तेन विशेषाभावे सर्वत्रैकशेषे द्विवचनाद्येव भवति । एकश्च एकश्चेति-" त्यदादिः” इत्यनेनापि न भवत्येकशेषः, व्यावृत्तेव्यक्त्याप्रवृत्तेः।
१७-३-९८ । २१-४-३८ । ३३-१-१२८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org