SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ( १७९ ) 'नित्यं प्रतिनाऽल्पे'।३।१। ३७ ॥ शाकप्रतीति-पूर्वार्थ इत्यधिकारेऽ प्यसम्भवादस्योत्तरपदार्थप्रधान एवाऽयं समासः। 'संख्याऽक्षशलाकं परिणा द्यूतेऽन्यथावृत्तौ' । ३ । १ । ३८ ॥ ननु " नाम नाम्न्यैकार्थे० " इत्यतः सूत्रात् ऐकायें सतीत्यनुवर्तते । तत ऐकायें सति समासः ऐकाय चैकपद्यं तच समासे सति भवति । तत इतरेतराश्रये दोषे समासः 5 कथं ? उच्यते-यत्र यत्र येन सूत्रेण समासः कर्तुमिष्यते तत्र तत्र तस्मादेव ऐकायें प्रथमं ज्ञातव्यम् । ततः समासः । अन्यथा हि सर्वाण्यपि सूत्राणि निरर्थकतां भजेरनिति हि न्यासविदः। षडादिभिधूताभावात् षट्परीत्यादि न भवति । उत्कर्षतस्तु चतुष्परीत्येव नित्यसमासोऽयमिति परिप्रयोगो वाक्ये नाऽकथि, किन्तु न तथा वृत्तमितिपर्यायः। समविषमद्यूते इति-एकिकाद्विके रूपे । अन्ये पूर्वमिति- 10 तस्मिन्नेव द्यूते । 'विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिपश्चात्क्रमख्यातियुगपत्सहसम्पत्साकल्यान्तेऽव्ययम्' । ३ । १ । ३९ ॥ समस्यत इति-अन्वर्थरूपत्वं समाससंज्ञायाः प्रदाऽव्ययीभावसंज्ञो भवतीत्युपसंहरति । अधिस्त्रीतिअत्राधिशब्दस्य कप्ताऽनेकार्थवृत्तेराधाररूपविभक्त्यर्थवृत्तित्वं प्रकाशयितुमुक्ताधार- 15 स्याऽपि सप्तम्यन्तेन स्त्रीशब्देन समासः । ऋद्ध्यभाव इति-ऋद्वेरुत्तरपदार्थधर्मस्याऽ. भावो न तूत्तरपदार्थस्यैव धर्मिण इत्यर्थाभावाद्भिद्यते । तत्र हि धर्मिण एवाऽभावः । धर्मिणोऽसत्त्वमिति-अत्र धर्मिणोऽनुत्पत्तिरेव न तु सतोऽभाव इत्यर्थाभावोऽत्ययाद् विशिष्यते । अत्ययो हि सतोऽतिक्रान्तकालसम्बन्धिनी सत्तैवोच्यते । उपभोगादेः प्रतिषेध इति-न तु वस्तुन इति तदभावाद्भिद्यते । तैसृकमिति-त्रयो मुख्या आसां 20 " सोऽस्य मुख्यः” इति कः। पृषोदरादित्वात्तिस्रादेशः । तिसृकासु भवोऽण् । अनुरथं यातीति-ननु नित्यसमासत्वात् पश्चाद्रूपेणार्थान्तरेणान्वित्यव्ययं समस्यते तथा पश्चाच्छन्दोऽपि अव्ययत्वादर्थान्तरेण समस्यतां नित्यसमासत्वात् प्रयोगसमवायि वाक्यं न प्राप्नोति, उच्यते-“ सर्वपश्चादादयः” इति वचनात् पश्चाच्छब्दस्य अव्ययीभावसमासं प्रत्यव्ययत्वं नाऽङ्गीकार्यम् , अव्ययत्वे हि अव्ययीभावः स्यात् 25 तत्र चाऽन्य इत्यधिकारात् समासान्तरप्राप्तावन्यत्वाभावात्तत्पुरुषो न स्यात् । युगपद्धेहीति-शब्दशक्तिस्वाभाव्याचाऽन्यपदार्थप्रधानोऽयम् । सम्पत्सिद्धिरिति-सिद्धिरात्मभावनिष्पत्तिः समृद्धिस्त्वन्यभावनिष्पचिरिति सिद्धिः समृद्धेरन्या । १३-१-१८ । २ ७-१-१९० । ३ ३-१-८० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy