________________
( १७८ ) दत्तमिति-असमस्तमिदम् । अतएव तावदित्युपादीयते । समासे हि गुणीभूतत्वात्तावदित्यस्योपादानाभावः स्याद्यथा यावदमत्रमित्यत्र ।
'पर्यपावहिरच् पञ्चम्या' । ३।१। ३२॥ परित्रिगर्तमिति पञ्चम्यर्थप्रधानात् प्रथमा । क्रियाविशेषणत्वविवक्षायां तु द्वितीया, यथा आमेखलं संचरतामि5 त्यत्रैवं सर्वत्राऽपि । प्रतिपदविहतायाश्चेति-लक्षणप्रतिपदोक्तयोरिति न्यायात् । अपशाख इति-न च वाच्यं शाखाया अपेन सह सम्बन्धाभावादेव न भविष्यति समासः । यतो गतार्थस्याऽपेनैवाऽभिधानादस्त्यपेन शाखायाः सम्बन्ध इति । न च परत्वात् " प्रत्यव० " इति तत्पुरुषेणाऽस्य बाधेति वाच्यं, तत्राऽन्यग्रहणात् ।
. 'लक्षणेनाभिप्रत्याभिमुख्ये'।३।१ । ३३ ॥ प्रत्यग्निमिति-वैचित्र्यार्थ 10 ससन्धिवाक्यम् । अभ्यग्नीति-अत्राऽग्निना शलभपातो लक्ष्यते इत्यग्निर्लक्षणं भवति ।
तस्य चाऽभिप्रतिभ्यामाभिमुख्यं प्रतिपाद्यते । अग्नौ हि शलभाः संमुखा एव पतन्ति । लक्ष्यीकृत्येति-लक्षणत्वेन लक्ष्यीकृत्येत्यर्थः । यद्वा दर्शनक्रियापेक्षयाऽग्निर्लक्ष्यः पतनक्रियापेक्षया लक्षणं यतः पूर्व पश्यंति ततः पतंति । स्रुघ्नं प्रति गत इति-अत्र
स्रुघ्नादन्यान्नगरान्तरं गन्तुकामः पथि व्यामोहात्तमेव प्रत्यागत इति नास्ति 15 गमनं प्रति स्रुध्नस्य लक्षणता । यदुद्दिश्य हि गमनं क्रियते तल्लक्षणं भवति ।
अत्र तु व्यामोहादेवेत्थं गतः। गतक्रियापेक्षया च ध्नस्य कर्मत्वम् । येनाऽग्निस्तेन गत इति-लक्ष्यं तेनेति लक्ष्यस्य द्योतकमग्गिलक्षणं येनेति लक्षणस्य द्योतकमिति लक्ष्यलक्षणभावः ।
'दैर्येऽनुः ।। १ । ३४ ॥ वृक्षमनु विद्योतत इति,-अत्र वृक्षो विद्योतन20 स्य लक्षणत्वेन विवक्ष्यते न दैय॑स्येति ।
'तिष्ठदग्वित्यादयः'।३।१।३६ ।। आयतीगवमिति-'इंणक' आयन्तीति शतरि “हिणोरप्वि०" इति यत्वे यां आयत्यो गावो यस्मिन्निति कार्यम् । वृत्तौ स्वर्थकथनमात्रमेवं पूर्वत्र तिष्ठग्वित्यत्राऽपि । असाधव इति-द्वितीयाद्यन्ता इति शेषः ।
एवं प्रान्तमिति-प्रगतत्वमन्तस्य प्रगतोऽन्तः प्रगतोऽन्तोऽस्मिन्निति वा । समत्वं समा25 नत्वं वा पक्षस्य तीर्थस्य तीरस्य चेति विग्रहत्रयं दर्शनीयम् । एवं प्रान्तमिति, स्त्रमतं
परमतं चेहाऽपि द्रष्टव्यमित्येवं शब्दार्थः । इति करणाच कृतापसव्यादिषु समासो न भवति । यत्र च दृश्यते तत्र चिन्तनीयम् ।
१३-१-४७ । २ ४-३-१५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org