________________
( १७६ ) 'सहस्तेन'।३।१ । २४ ॥ तेनेति तृतीयान्तप्रतिरूपका निपातात्तृतीया । न तुल्ययोग इति-ननु तुल्ययोगविद्यमानार्थयोः को भेदः १ उच्यते-क्रियागुणद्रव्यैरुभयोः सदृशः सम्बन्धस्तुल्ययोगः । विद्यमानार्थता तु न तथा । तथाहि-सकर्मका
दात्मनेपदमित्युक्ते यथा धातोरात्मनेपदं न भवति तथा कर्मणोऽपि । तथा सलोमको 5 भोज्यतामिति यथा देवदत्तो भोज्यते न तथा लोमान्यपि । क्वचिन्न भवतीति-तुल्य
योगे तु भवत्येव । वहति गर्दभीति-अत्र तत्पुत्राणामस्तित्वमेव विवक्षितं न तु वहनक्रियेति विद्यमानार्थता ।
'दिशो रूख्याऽन्तराले' । ३ । १ । २५ ॥ अन्तरालस्याऽन्यपदार्थत्वेऽपि प्रथमान्तत्वाद् " एकार्थं चा०" इत्यनेन न प्राप्नोतीति वचनं कजभावार्थ च, कथ10 मिति चेत् ? उच्यते-" शेषाद्वा" इत्यत्र हि शेषे सामान्यविहिते वहुव्रीहौ न त्वन्यस्मिन्निति व्याख्यानात् । एवं " सुज्वार्थे०" इत्यादिसूत्रत्रयमपि ।
'तत्राऽऽदाय मिथस्तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः'।३। १।२६ ॥ 'काकाक्षगोलकन्यायेन' मिथः शब्दः प्रत्येकमभिसम्बध्यते। अत एव सूत्र
मध्ये पठितः । प्रहृत्येति-इति शब्दो वाक्यस्वरूपपरामर्शार्थः। स च प्रत्येकं सम्ब15 ध्यते, तत्राऽऽदाय मिथ इति मिथस्तेन प्रहृत्येति । अव्ययीभावसंज्ञेत्यत्र-'ननु संज्ञा
संज्ञान्तरबाधिका नेति' न्यायाद्वहुव्रीहिसंज्ञाऽप्यस्तु ?, नैवम् द्विगुश्चेति चकारकरणात्द्वितीया संज्ञा न । केशाकेशीति-नन्वन्यचिकीर्षितायाः क्रियाया अन्येन करणं क्रियाव्यतिहारः ततश्च यदेकेन केशग्रहणमकारि तदपरो न विधत्ते परचिकीर्पितं, किन्तु
स्वचिकीर्षितमिति क्रियाव्यतिहारो नाऽस्तीति कथं समासः ? उच्यते-यद्यपि स्वचि20 कीर्षिताऽन्या क्रिया तथापि तत्सदृशत्वादेकैव । यथा यद्ययं मे ओदनं दास्यति तदा
ऽहमप्यस्मै तमेव दास्यामि पश्चात्किं तमेव ददाति ? परं तत्सादृश्यादन्योऽप्योदनः स एवोच्यते । एवमत्राऽपि । केशेषु च केशेषु गृहीत्वा युद्धमनेनेति-एकः सकेशः अन्यश्च मुण्डोऽतो न मिथोऽभावः ।
___ हस्ते च पादे च गृहीत्वेति-यदा तु हस्तश्च पादश्चेति कृत्वा “प्राणितूर्याङ्गाणाम्" 25 इत्येकत्वे हस्तपादे च हस्तपादे च मिथो गृहीत्वा कृतं युद्धमिति क्रियते तदा हस्तपा
दाहस्तपादीति भवति । व्यासजेतामिति-बाह्वोश्च बाह्वोश्च मिथो गृहीत्वा व्यासङ्गः कृतः । क्रियाव्यतिहारे आत्मनेपदं ह्यस्तनी आताम् व्यासङ्गं कृतवन्तावित्यर्थः ।
'नदीभिर्नाग्नि' । ३। १ । २७॥ शनैर्गङ्गमिति शनैर्योगाद्गङ्गाऽपि शनैः सा १३-१-२२ । २ ७-३-१७५ । ३ ३-१-१९ । ४ ३-१-१३७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org