________________
( १७५ ) पञ्चविंशा इति - " प्रत्ययः प्रकृत्यादेः" इति न्यायेन पूरणप्रत्यये मटि पञ्चमीत्यस्य पूरणप्रत्ययान्तता नाऽर्धपञ्चमेत्यस्य तेन “ तद्धिताकको ० " इति न पुंवन्निषेधः । ननु यथा बहुव्रीहिणा विभक्त्यर्थस्याऽभिधानात् षष्ठयादयो न भवन्त्येवं लिङ्गसंख्ययोरभिधानात्तयोद्यतकत्वात् इत्यादयो न प्राप्नुवन्ति, उच्यते - स्वार्थिकत्वाद्यादीनां समासेनाऽभिहितेऽपि स्त्रीत्वादौ तद्योतनाय भवन्ति । स्त्रियां यद्वर्तते नाम तस्माद्यादयो 5 भवन्तीति हि तत्राऽर्थः । तथा चित्रगुरिति समासेन नामार्थमात्रस्य कर्मादिशक्तिरहितस्यैकत्वादय उक्तास्ततः कर्मादिगतैकत्वादिप्रतिपादनाय वचनानि भवन्ति । चित्रगुं पश्य, चित्रगुणा कृतमिति प्रथमा तर्हि न प्राप्नोति समासेन संख्याया अभिधानात्, नैवम् ; साऽपि न केवला प्रकृतिः प्रयोक्तव्या न च केवलः प्रत्यय इति समयाद् भविष्यति । अथवा यदा चित्रगुरेकत्वविशिष्टो नामार्थः प्रतिपिपादयिपितस्तदा 10 विभक्त्या विनाऽसौ न शक्यते प्रत्याययितुमिति प्रथमैकवचनं विधेयमेवं द्वित्व बहुत्वयोर्द्विवचनबहुवचनविधिः ।
'एकार्थं चानेकं च' । ३ । १ । २२ ।। समानोऽर्थोऽधिकरणमिति - यथाऽऽरूढो वानरो यमित्यत्र - आरूढोऽपि स वानरोऽपि सः । चित्रगुचैत्र इति - ननु यथा चार्थे द्वन्द्वविधानाद् द्वन्द्वे चकारस्याप्रयोगः, एवमिहापि चैत्रादेः प्रयोगो न प्राप्नोति, नैष दोषः चित्रगुशब्देन तद्वन्मात्रं सामान्यमुच्यते न तु विशेष इति तत्राऽवश्यं विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः । चित्रगुः कश्चैत्र इति वा विकल्पेन नरो वने रमते "केचित् " इति डे वनरस्तस्याऽयमिति वा वानरः, अन्तेषु शितीनीति - अर्थकथनमिदं विग्रहस्तु अन्तेषु शितीनि, अन्तशितीनीति । अवान्तरसमासः कार्यः । अन्यथैकार्थत्वं न स्यात् । पञ्चनावप्रिय इत्यत्राटि समासान्तात् ङीर्न बाधन्ते स्वार्थिकाः क्वचिदित्यतः अकारान्तान्नाम्नो ङीविधानात् समासमध्ये डीर्न भवतीति न्यासकारः । यथा मे माता तथा मे पितेति - मे मातेत्याद्यर्थकथनं मे माता मन्मातेति तु विग्रहः । ततो यथेति मन्मात्रिति तथेति च त्रयाणां पदानां मत्पित्रा सह समासः प्राप्तः । न च वाच्यमेकार्थत्वात्वाभावान्न समासः । यतो य एव मातृसदृशः स एव मत्पितेत्येकार्थत्वमस्ति । अस्योदाहरणस्याऽयमर्थः - यथा- कश्चित्केनचित्पृष्टः कीदृशः कुलशीलादिना तव पितेति । स आह-यथा मे 25 मातेति । अथवा स्नाहीति कचिदुक्तः स आह यथा - मे मातेति । यथा शुद्धा मे माता तथा पिताऽपीत्यभिजनशुद्धिरपि स्नानं किं बाह्येन स्नानेन ?, ततः सुस्नातं भो इति
20
उष्ट्रमुखादयः ' | ३ | १ | २३ || उपमानमुपमेयेन समस्यमानं नैकार्थतां भेजे, स एव चन्द्रस्तदेव मुखं न भवत्यतो भिन्नसूत्रम् । सामान्यवाचिना चेति-साधारणधर्मवाचिनावस्थानादिरूपेणेत्यर्थः ।
१३-२-५४ । २५-१-१७१ ।
6
Jain Education International
For Private & Personal Use Only
15
www.jainelibrary.org