________________
( १७३ ) त्रविहितगतिसंज्ञासन्नियोगे न भवति । तथा लवणां कृत्वा यवागू भुते । शीतः कृतः शीता कृता शीताः कृता इत्यादावभिधेयवल्लिङ्गे गतिसंज्ञाया अभावात् मान्ताभावः ।
'प्राध्वं बन्धे' । ३ । १ । १६ ।। बन्धहेतुकमिति-बन्धजनितमित्यर्थः। दुष्टाश्वादिर्हि बन्धनेनाऽऽनुकूल्ये व्यवस्थाप्यते । बन्ध इत्युच्यत इति-कारणे कार्योपचारात् , कारणं बन्धः कार्यमानुकूल्यं बन्ध एवाऽऽनुकूल्ये वर्तते । __ 'नाम नाम्नैकार्थे समासो बहुलम् ' । ३ । १ । १८ ॥ सामर्थ्यमनुभृय भवतीति-ननु भवनक्रियायाः सामर्थ्य विशेषः कर्ता, अनुभवनक्रियायास्तु पदानि कर्तृणीति भिन्नकर्तृकतायां क्त्वा न प्राप्नोति, नैवम् ; वर्तनक्रियापेक्षया तुल्यकर्तृकत्वं, वर्तनक्रियायास्तु पदान्येव कर्तृणि, कोऽर्थः ? पदानां सामर्थ्यमनुभूय वर्तमानानां सामर्थ्यविशेषो भवति । न च वाच्यमनुभवनक्रियाया भवनक्रियायाश्च सामर्थ्यवि- 10 शेष एव कर्तेति तुल्यकर्तृत्वं, यतः परस्परव्यपेक्षा पदानामेव सम्भवतीत्यनुभवनक्रियायाः पदान्येव कर्तृणि । अननुभूयैवेति-नित्यसमासत्वादिति शेषः । जामदग्न्य इति-प्रथमापत्यस्याऽपि पौत्र कार्यकरणाद् वृद्धत्वविवक्षायां “ गर्गादेर्यम्" विस्पष्टादयः पट्वादीनां प्रवृत्तिनिमित्तस्य पाटवादेविशेषणानि, न तु द्रव्यस्येति विस्पष्टमिति नपुंसकत्वम् । अत एव मुख्यं सामानाधिकरण्यं नाऽस्तीति कर्मधारय. 15 तत्पुरुषाभावः । काष्ठा परं प्रकर्षमिति-काष्ठाशब्दस्य स्त्रीलिङ्गस्य क्रियाविशेषणत्वात् नपुंसकत्वे " अनंतो लुप् " भवति इस्वत्वं तु बाहुलकान्न भवति । ऊर्ध्वमौहर्तिकमिति-ऊवं मुहूर्ताद्यो भवः कालस्तत्र भवः, " अध्यात्मादिभ्य इकण्,” सप्तमी चोर्ध्वमौहूर्तिके " इति निर्देशादुत्तरपदवृद्धिः। वाससी इवेति-अत्रोत्तरपदप्राधान्यात् सेः " अव्ययस्य " इति लुप् । एवं दृष्टपूर्व इति-पूर्व दृष्टा इत्यपि कृते निपातनाद् हस्त्र- 20 त्वम् , तेन न मे श्रुता नाऽपि च दृष्टपूर्वा इति सिद्धम् । सामान्येन समासं कृत्वा । पश्चात स्त्रीत्वे वा। चरन्ति गावो धनमस्येति-अत्र समासे चरन्तिगुरिति स्यात् । नित्यसन्ध्यादिरिति-ऐकपद्यात् "ह्रस्वोऽपदे वा" इति हस्वविकल्पाप्रवृत्तेर्नित्यं यत्वादि भवतीत्यर्थः । पदत्वार्थमिति-अन्ये त्वाहुरेको द्वावित्यादिवदुक्तेष्वप्येकत्वादिषु नामार्थत्वात् केवलायाश्च प्रकृतेः प्रयोगाभावाद् भाव्यमत्र प्रथमैकवचनेन तस्य च " दीर्घ- 25 ङयाब्" इत्यनेन लुब, " अनंतो लुप्" इति वेति तन्मतग्रहणायाऽऽह पदत्वार्थमिति । त्याद्यन्तार्थप्राधान्यादिति-त्याद्यन्तस्य साध्यार्थप्रधानत्वादसववाचित्वं, असत्त्वं च सामान्यं; सामान्यं च नपुंसकं ततः " अनंतो लुप्"।
- १६-१-४२ । २१-४-५९ । ३६-३-७८ । ४५-४-३० । ५३-२-७ । ६१-२-२२ । ७१-४-४५।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org