________________
( १७२ ) 'कारिका स्थित्यादौ'। ३।१।३॥ श्लोकवाचिनस्तु कारिकाशब्दस्य सत्यपि धातुसम्बन्धसम्भवे प्रयोगादर्शनात् ग्रहणाभाव इति ।
'अग्रहाऽनुपदेशेऽन्तरदः ।। ३ । १।५॥ मध्ये हिंसित्वेति-अन्तः शब्दो मध्येऽधिकरणभूते वर्तते परिग्रहे च, तत्र परिग्रहे प्रतिषेधादितरत्र गतिसंज्ञा विज्ञायते 5 इति दर्शयति । विशेषानाख्यायने चिन्तयतीत्यस्य स्थाने कथयतीति प्रयोगो ज्ञेयः ।
_ 'कणे मनस्तृप्तौ'।३। १ । ६ । सूत्रेऽव्ययमित्यस्याऽकरणात्कणे मनस् इत्येते अव्यये इति स्वरूपनिरूपणमात्रमेवेति । तृप्ताविति व्यावृत्तेनं व्यङ्गवैकल्यम् । ___ 'पुरोऽस्तमव्ययम् ' । ३ । १ । ७ । पुरः कृत्वेत्यत्र-पुरशब्दात् शसि सका
रान्तोऽस्त्येवेति न द्वयङ्गवैकल्यम् । 10 'गत्यर्थवदोऽच्छः ।। १।८ । अत्र समासान्तविधेरनित्यत्वादत एव निर्देशाद्वा " चवर्गदषहः” इति समासान्तो न भवति । अवतेरचि पृषोदरादित्वाद. कारस्य छकारे " स्वरेभ्यः" इति द्वित्वे अच्छ इति अभ्यादावर्थेऽव्ययं निर्मलादावनव्ययम् ।
'मध्येपदेनिवचनेमनस्युरस्यनत्याधाने' । ३।१।११ ॥ अनत्याधाने 15 इति अत्र-“ विभैक्तिसमीप० " इत्यनेनाऽर्थाभावेऽव्ययीभावः । तस्मिन्नपि " सप्तम्या
वा " इति विकल्पादम्भावाभावः तत्पुरुषो वा । मध्ये कृत्वा वाचं तिष्ठतीति-औपचारिकोऽयमाधार इति वाचोऽनत्याधानमस्ति । वचनं हि शब्दप्रकाशनफलं न केना. ऽपि सह समवैति ।
'उपाजेऽन्वाजे'।३।१।१२।। उप अनु इत्येवं पूर्वांदजतेजि पृषोदरा20 दित्वादेकारे-उपाजेऽन्वाजे ।
'स्वाम्येऽधिः' ३।१।१३ ॥ प्रादिरूपसर्ग इति वर्तत इति-अत्रैव सूत्रे मण्डूकप्लुतन्यायेन प्रादिरुपसर्ग इति वर्तते, न ऊर्यादि सूत्रेषु तेन ऊर्यादीनां न उपसगेसंज्ञा । ततश्च ऊरी स्यादित्यादौ " प्रादुरुपसर्गा० " इति न षत्वम् । प्राक्त्वेऽप्यनि
यम इति-न केवलं समास एवेत्यर्थः । नन्वधिपूर्वः करोतिर्विनियोगे वर्तते तत्कथं 25 स्वामित्वे गम्यमान इति ? उच्यते-सत्यम् , विनियोगोऽपि चेत्स्वामित्व विषयो भवति ।
'साक्षादादिश्रव्यर्थे '।३।१।१४॥ च्यन्तानामिति-अर्थग्रहणाच्यन्तानां विकल्पो न भवतीति । मान्तत्वं निपात्यत इति-तेन लवणीकृत्येत्यादौ पूर्वसू
१७-३-९८ । २१-३-३० । ३३-१-३९ । ४३-२-४ । ५२-३-५८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org