________________
( १७१ ) "गतिकन्य० " इत्यनेन । “ अतिरतिक्रमे च " इत्यपि बाहुलकात् न । वृक्षं वृक्षमभिसिश्चतीति-चीप्सार्थेनाऽभिना योगात् " लक्षणवीप्स्ये." इति द्वितीया । धात्वर्थ बाधत इति-प्रादेरव्ययत्वादनेकार्थतां दर्शयति । धातुपाठे योऽर्थस्तदपेक्षया धात्वर्थ बाधत इत्युक्तमन्यथाऽनेकार्थत्वाद्धातूनामयमों न स्यात् । अभ्यन्तरीकृत्येति-बुद्धि. स्थीकृत्येत्यर्थः। यस्माद्विशिष्टैव क्रियेति-क्रियायाः क्षणिकत्वात् सामान्यक्रियाया 5 उत्पत्यनन्तरमेव विनाशादुपसर्गयोगे न स्याद्विशिष्टत्वमित्यर्थः। अन्तरङ्गत्वादेवदीर्घत्वयोरिति-सम्पन्नकारणत्वादेत्वदीर्घत्वयोरन्तरङ्गत्वं तागमस्य तु सम्पत्स्यमानकारणत्वादहिरङ्गत्वम् । कृते च यबादेशे एकपदत्वात्तागमस्यैवाऽन्तरङ्गत्वम् । " व्यञ्जनस्यानादेर्लुक्' इतीति-उभयोः स्थाने निष्पन्नत्वाद् यकारवकारयोर्धातुव्यपदेशात् पुनरपि "व्यञ्जनस्याऽनादेखेंग" भवति । तस्याऽधातुत्वादिति-सन्नादेः प्रत्ययस्य 10 क्रियार्थत्वेऽपि न धातुत्वं स्वादिसाहचर्याद् भ्वादयोऽप्रत्यया एव धातवोऽन्येऽपि तथा । अमनो मनः सुभवति दुर्भवति अभिभवतीति वाक्यं कर्तव्यं " व्यर्थे भृशादेस्तोः" क्या सलोपश्च । सुशब्दस्य भवतिना सम्बन्ध इति । यदा तु असुमनाः सुमना इति मनसा सम्बन्धस्तदा सुशब्दस्य प्राक्तं सिद्धमेव । ननु सुकटंकराणि वीरणानि दुष्कटंकराणि वीरणानीत्यत्र गतिसंज्ञकस्य सुशब्दस्य धातोः प्राक् प्रयोगः 15 प्राप्नोति ?, नैवम् : " दुःस्वीषतः कृच्छाकृच्छार्थात् खल्,” " च्यर्थे क प्याद् भूकृगः" इत्यत्र च खित्करणात् । तस्य ह्येतत्प्रयोजनं खिति मोऽन्तो यथा स्यात् । यदि च सुशब्दस्य प्राग्धातोः प्रयोगः स्यात्तदा खित्करणमनर्थकं स्यादिति । सुशद्वादिना कटादेर्व्यवधानात् । सुशद्धाचव्ययत्वान्न भवति ।
'ऊर्याद्यनुकरणच्चिडाचश्च गतिः' । ३ । १ । २।। सोऽयमित्यभेदोपचा- 20 रेण कुतश्चित्सादृश्यात् , येनाऽनुक्रियते तदनुकरणमित्याह । अनुकरणानीति-चिडाचो प्रत्ययत्वात् प्रकृतेराक्षेपात् प्रत्ययमात्रस्य धातुसम्बन्धासम्भवाच तदन्तप्रतिपत्तिरित्याहव्यन्ता इति । डाजिति चित्करणात्पिता कृत्वेत्यादौ पितृशब्दात् “ ऋदुशनस्." इत्यनेन डा इति तदन्तस्य गतित्वाभावातत्तो यबादेशाभावः । खाडिति कृत्वेतिकृत्वेत्यस्येतिना सम्बन्धः । इतश्च खाडित्यनेन अतो धातोः खाटश्च परस्परं 25 न सम्बन्धः।
स्वधापितृभ्य इति श्रुतेः, कथं स्वधा देवता सम्प्रदाने वर्तते ? उच्यते-पितृणामपि देवतारूपत्वाददोषः।
१३-१-४२ । २ ३-१-४५। ३ २-२-३६ । ४ ४-१-४ । ५ ३-४-२९ । ६५-३-१३९ । ७५-३-१४० । ८१-४-८४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org