________________
भाव्यं, प्रत्ययलोपे प्रत्ययलक्षणं च नास्ति, समुदायाद् या विभक्तिस्तामाश्रित्य त्यदाद्यत्वे सत्यापा भाव्यं, स च विग्रहकालभाविन्या विभक्त्या व्यवधीयते । तहिं द्विके इति मूलप्रयोगेऽपि कुत्सिते द्वे इति तद्धितवृत्तौ " त्यादिसर्वादेः ० " इत्यकि
औकारस्य लोपे तद्धितान्तादौकारे तदाश्रये त्यदाद्यत्वे आपि च तद्धितवृत्तिनिमित्तस्य 5 औकारस्य स्थानिवद्भावान प्राप्नोति ? नैवम् , उभयोरपि औकारयोरेकपदभक्तत्वेन व्यवधानं न भवति । अद्वके इत्यत्र तु समासभक्तस्य औकारस्य प्रथमेन द्विशब्दभक्तेन औकारेण व्यवधानं भवत्येव । कृत्रिमः पुत्रः-"तनुपुत्राणु०” इति के पुत्रकः स्त्रीचेत् पुत्रिका । वृन्दारिकेति-प्रशस्तं वृन्दमस्याऽस्तीति वृन्दादारकस्ततो " जान्तेरयान्त० " इति बाधायै " अजादेः" इत्यापा ।
'अस्याऽयत्तक्षिपकादीनाम्'।२।४ । १११ ॥ पृथग्योगादिति-अयमों यद्यत्रापि विकल्पः स्यात्तदा स्विका स्वकेत्यादौ " ङ्यादीदूत: के " इति इस्वत्वेऽनेन वैकल्पिकस्य इत्वस्य सिद्धत्वात् , “ स्वज्ञाजभत्रा०" इत्यादीनां पृथगुपादानमनर्थकं स्यादित्यर्थः।
'तारकावर्णकाऽष्टका ज्योतिस्तान्तवपितृदेवत्ये'।२।४।११३ ॥ 15 णिजन्ताद्वर्ण्यत इति कर्मणि संज्ञायां णके वर्णका । वर्णयतीति तु चौरादिकप्रतिप
त्यर्थ तिवा निर्देशो न तु णकारम्भकः । अथवा वर्णयत्याधारविशेषगतमाधेयगुणं वादयतीति । ॥ इत्याचार्यश्रीहेमचन्द्रस्मृतायामवचूर्णिकायां द्वितीयस्याऽ
ध्यायस्य चतुर्थः पादः ॥ 20
'धातोःपूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थाऽतिवर्जः प्रादिरुपसर्गः प्रा. क् च'।३।१।१।। प्राक्छब्दस्याऽव्यवहिते वर्तनादाह-न पर इति । धात्वर्थः प्रशस्यते इति-शोभनत्वोद्धावनेन सिचि स्तौत्योरर्थस्य कर्तुः पूजा प्रतीयत इत्यर्थः । गता
विधिपरीति-गतो ज्ञातोऽर्थोऽभिधेयं ययोस्तौ गतार्थों, योऽर्थोऽनयोोत्यस्तस्य प्रक25 रणादिवशादवगमे निष्प्रयोजनावेतावुच्यते इति गतार्थत्वम् । यद्येवं प्रकरणादिनोक्त
त्वात्तदर्थस्य तयोः प्रयोगाऽयोगः, उच्यते-प्रकरणादेव गतार्थानामपि स्फुटतरार्थाऽव. गत्यर्थः प्रयोगो लोके भवति । यथाऽपूपो द्वौ ब्राह्मणो द्वावनयेत्यपूपावित्यत्र द्विवचनादवगतेऽपि द्वित्वे द्विशब्दस्य प्रयोग इति । समासाभावादिति-गतिसंज्ञाया अभावात्
१ ७-३-२९ । २७-३-२३ । ३२-४--१६ । ४२-४-१६ । ५२-४-१०४ । ६२-४-१०८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org