________________
( १६९ ) तु " शेषाद्वा” कच् । पूर्वसूत्रे क इति निरनुबन्धे कचि प्राप्तिरेव नाऽस्तीत्याह-न कचीति प्रतिषेध इति । नैषादकर्षक इति-उवर्णादिकणिति इति । ___ 'इचाऽपुंसोऽनित्क्याप्परे' । २।४। १०७ ॥ आपीति कृत उपश्लेषसप्तम्यैव । आबुपश्लिष्टे ककारे इत्वमित्यर्थस्य सिद्धेः परग्रहणं नियमार्थमित्याह-आबेव पर इति । सर्विकेति-सर्वा नाम काचित्ततः स्वार्थे “ यावादिभ्यः कः " | " यादी- 5 दूतः के " इस्वत्वेऽस्याऽयत्तदिकारः । सर्वादेः सर्वशब्दस्य तु त्यादिसर्वादेरित्यनेनाs. न्त्यस्वरात् प्रागकि सविंकेति न स्यात् । मातृकेति-ननु यथेहाऽऽब् नास्ति तथा मिमीते इति धान्यमातुरपि मातृशब्देनाऽभिधानादपुंस इत्यपि नाऽस्ति । ततो व्यङ्गविकलत्वानेदं प्रत्युदाहरणं युज्यते । प्रत्युदाहरणं हि तदङ्गाभावे कार्याभावं प्रदर्शयत्तदङ्गसामर्थ्यप्रदर्शनार्थमुपादीयते । तत्राऽङ्गद्वयवैकल्ये कस्याऽङ्गस्य वैकल्यादिह कार्या- 10 भाव इति निर्णयाभावादेकस्याऽप्यभाव इति, नैष दोषः। जननीवचनस्याऽन्यस्यैवाऽव्युत्पन्नस्य मातशब्दस्य ग्रहणात् । यद्वा प्रत्युदाहरणदिमात्रमिदं तेन स्वसृकेत्यादि प्रत्युदाहरणं द्रष्टव्यम् ।
'स्वज्ञाऽजभस्त्राऽधाऽतुत्ययकात्'।२।४ । १०८ ॥ स्वा ज्ञातिः स्त्रिकेति-यद्यपि स्वशब्दः 'स्वो ज्ञातावात्मनि क्लीवे, त्रिष्वात्मीये धनेऽस्त्रियाम् ' इति 15 पठयते तथापि कुत्सिताद्यर्थविषये ज्ञातावपि स्त्रीत्वमत एव पाठात् । भवति युपाधिभेदाल्लिङ्गयोगस्तदन्यलिङ्गत्वं च यथा पचति रूपमित्यलिङ्गस्याऽपि नपुंसकलिङ्गात्वम् । कुटीरमिति-स्त्रीलिङ्गस्याऽपि नपुंसकलिङ्गत्वम् । विचित्रा हि शब्दशक्तयः । यद्वा ज्ञातिरत्र स्त्रीरूपा विवक्षिता तेन योनिमन्नामत्वात् स्वशब्दस्य स्त्रीत्वम् । न विद्यते स्वा यस्या इति कृते कपि अस्विका अस्वकेति रूपे । कचि तु अस्विका अस्वकेति 20 रूपे। कपि निमित्तभृते विकल्पपक्षे "अस्याऽयत्" इति न विकल्पसामर्थ्यात् । कचि तु " नँवाऽऽप" इति ह्रस्वे कृते अस्याऽयत्तद्भवत्येव । न च सूत्रविकल्पः प्रवर्तते । सूत्रं विनाऽपि अस्विका अस्वकेति सिध्यत इति । अस्विकेति रूपमेकं रूपेणैव गतार्थमिति । स्वा आत्मा आत्मीया चेति-स्त्रीसम्बन्ध्यत्राऽऽत्माविवक्षितस्तस्य च योनिमता स्त्रीशरीरेणाऽभेदोपचारात् योनिमन्नामत्वात् स्वा इत्यत्र स्त्रीत्वम् । 25
'येषसूतपुत्रवृन्दारकस्य'।२।४ । १०९ ।। यदा तु न द्वे न एषेति एषद्विशब्दौ नपूर्वावित्वविकल्पं न प्रयोजयतस्तत्रापि कृते नसमासेऽनसमासे वागिति द्वयी गतिः । उभयोरपि च पक्षयोविभक्तेः पर आबिति । यतोऽन्तरङ्गानपि विधीन् बहिरङ्गाऽपि लुब्बाधत इति समासार्थाया विभक्तेस्त्यदायत्वात् पूर्व लुपा
१७-३-१७५ । २ ७-३-१५ । ३ २-४-१०४ । ४ २-४-१०६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org