________________
( १६७ ) "अवर्णेवर्णस्य” इति ईयाऽकारलोपे ततो बिल्वकीयादेरित्यनेनाऽधिकारायातस्य यकारमात्रस्य लोपे पुनः " अवर्णवर्णस्य ” इति ईकारलोपे बिल्वकीयादेरित्यनेन यकारलोपे कर्तव्ये " स्वरस्य ०" इति परिभाषयाऽकारलोपस्य स्थानित्वम् । “नै सन्धि०" इति यविधौ स्थानित्वनिरासात् १ सत्यम् , यविधौ स्थानित्वनिषेधेऽपि ईकारलोपे स्थानित्वमस्त्येवेति ईयग्रहणम् । ननु तर्हि बिल्वकीयादेर्यस्येति क्रियताम् ? एवं कृते य- 5 काराधिकारे पुनर्यत् ग्रहणं करोति तदेवं ज्ञापयत्यत्र सस्वरस्यैव यस्य लुक् , सस्वरयलोपे च स्वरव्यञ्जनसमुदायत्वात् " स्वरस्य० " इति स्थानित्वाभावे सर्व भविष्यति, सत्यम् ; एवं कृते एषाऽप्याशङ्का स्यादनेन यकारलोपे ईकारस्य लुग्भवतीति । यदीकारलोपोऽपि सम्मतः स्यात्तदा ईयस्येति कुयोंदिति । ___ङ्यादेगौणस्याक्विपस्तद्धितलुक्यगोणीसूच्योः' । २। ४ । ९५॥ :0 लुगिति-लुप एवोपलक्षणं तेनाऽगोमती गोमतीभूता गोमतीभूतेत्यत्र च्वेरभावेऽपि लुवभावात् डीनिवृत्तेरभावः। _ 'गोश्वाऽन्ते इस्वोऽनंशिसमासेयो बहुव्रीहौ' । २। ४ । ९६ ॥ अंशिसमासवर्जनात् समासस्याऽन्त एव हस्वः। नन्वर्धपिप्पलीति-अनंशिसमासेयो बहुव्रीहाविति व्यावृत्तौ किमिति दर्शितम् । यतो हस्वत्वे कृतेऽपि 'परलिङ्गो द्वन्द्वोंऽशीति' 15 वचनात् पिप्पलीलिङ्गे "ईतोऽक्त्यर्थात्०” इति ङ्यां रूपं तथैव, सत्यम् ; इतोऽत्यर्थादिति वैकल्पिको डीः ततोऽर्धपिप्पलिरर्धपिप्पलीति रूपद्वयं स्यादिष्यते चाऽर्धपिप्पलीत्येव । ननु तर्हि तुर्यभिक्षेति किमर्थं दर्शितम् ? यतोऽत्राऽपि 'परलिङ्गो द्वन्द्वोंऽशीति' वचनात् भिक्षेत्युत्तरपदस्य स्त्रीत्वे इस्वत्वे कृतेऽपि पुनरापि सति तुर्यभिक्षामतिक्रान्तो यः सोऽतितुर्यभिक्ष इति । पूर्वपदार्थप्रधानत्वादंशिसमासस्य "गौणो ङ्यादिः” इति 20 न्यायोपढौकनात् " गौश्वाऽन्ते० ” इति इस्वत्वं स्यादतितुर्यभिक्षा इति च साधुः।
'क्लीबे'।२।४ । ९७ ॥ काण्डे कुड्ये इति-नन्वत्र पदं वाक्यमव्ययं चेति वचनादलिङ्गत्वे इस्वत्वप्राप्तिरेव नास्ति तत्कथमुक्तमसिद्धत्वादिति ? सत्यम् , पदसाऽलिङ्गत्वेऽपि काण्डकुड्ययोरवयवयोंर्यल्लिङ्गं तद्यदा समुदाये काण्डयेकुडथे इत्येवं रूपे उपचर्यते तदा प्राप्तिः । यद्वा काण्डे कुडये इत्यत्र योऽस्य स्थाने परेणेका 25 रेण सह एकारः स कचिन्नपुंसकाकारसम्बन्धी क्वचित्पदसम्बन्धी कथ्यते-'उभयोः स्थाने' निष्पन्नत्वात् ।
'वेदूतोऽनव्ययम्वृदीच्ङीयुवः पदे' । २ । ४ । ९८ ॥ इन्द्रहपुत्र इति
१७-४-६८ । २७-४-११० । ३७-४-१११ । ४ २-४-३२ । ५७-४-११६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org