SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ( १६६ ) वर्णेन व्यवधानमाश्रीयते । ननु भवत्वेवं परं मत्स्यस्येयं “ तस्येदम्" इत्यणि मत्स्याकारलोपेऽणन्तत्वाद् झ्यामस्य ङ्यामित्यणोऽकारलोपे द्वयोरकारयोः स्थानिवद्भावात् मात्सीत्यत्र यलुग् न प्राप्नोति, नैवम् ; “ ने सन्धि० " इति स्थानिवद्भावप्रतिषेधात् , प्रथमपक्षे तु “ नै सन्धि० " इत्यस्य चिन्ताऽपि न कृता । उत्तरान्तरेणैव सिद्धत्वात् । 5 'व्यञ्जनात्तद्धितस्य' ।२।४। ८८ ॥ तद्धितस्येत्यत्र-तद्धितसम्बन्धिनो यकारस्येति वैयधिकरण्ये षष्ठी। यकारस्य किंविशिष्टस्य तद्धितस्य ? तद्धितरूपस्येति तु सामानाधिकरण्ये सामिधेनीत्यादौ न स्यात् । औचितीति-उचच् समवाये उच्यति समवैति प्रकृतैः स्वभावैः " ध्रुषिहृषि० " इति किदितः। वैश्यीति-येषां मते विशोऽपत्यमिति वैश्यः शब्दः साध्यते, तन्मते-यलोपः प्राप्नोत्येव । 10 'आपत्यस्य क्यच्च्योः ' । २।४।९१॥ अपत्ये भव आपत्यस्तस्य स्था नसम्बन्धिषष्ठी। गार्गीयतीति-'येन नाऽव्यवधानमिति' न्यायादीकाराऽकारादिना व्यवहितस्याऽपि यस्य लुक् । गार्गायते इति-यदा गार्य इवाऽऽचरति कर्तुः किपि तल्लुपि ते प्रत्यये " क्यः शिति ” इति क्य आनीयते तदाऽनेन यलोपो न भवति । चि साहचर्यात् , यतश्विर्नाम्न एव सम्भवति ततः क्योऽपि नाम्न एव परतो विहितो 15 गृह्यतेऽयं तु नामधातोरिति । __ 'तद्धितयस्वरेऽनाति' ।२।४ । ९२ ॥ गार्गकमिति-गर्गस्याऽपत्यानि यञ् तस्य च “ ने प्राग्जितीये.” इत्यनेन निषेधाद् " यत्रोऽश्यापर्णान्त० " इति न लुप् । ततो गर्गाणां समूहो गार्गकं गोत्रोक्षाकञ् । गार्गीय इति-गाय॑स्याऽयं शिष्यश्वेदन्यथा “ गोत्राददण्ड० " इत्यकञ् स्यात् । ___'बिल्वकीयादेरीयस्य ' । २। ४ । ९३ ॥ ननु विल्वकीयादयो द्विधा के. चिन्नडादेः कीये सति, अपरे कुत्सिताद्यर्थकप्प्रत्ययान्तादीये सति तत्केषामिह ग्रहणं ? उच्यते-आदिशब्दस्य व्यवस्थावाचित्वादित्याह-नडादिष्वित्यादि । बिल्वा वेणवो वेत्राणि वेतसास्त्रयस्तक्षाण इक्षवः काष्ठानि कपोताः क्रुश्वाः सन्त्यस्यामिति विग्रहे नडा देः कीयः । " आत्" इत्याप् ततो भवार्थेऽण् । काष्ठकीया इत्यत्र तु काष्ठकीयशब्दः 25 कच्छादौ द्रष्टव्यः, ततः कच्छादिपाठात् कोपान्त्याचाऽण् ; अन्यथा “दोरीयः" स्यात् । क्रौञ्चका इति-क्रुश्चाशब्दस्य कीये नडादिपाठाद् हस्वः। क्रुश्वकीयायां भवाः। नन्वत्र ईयग्रहणं किमर्थं बिल्वकीयादेरित्येव क्रियतामेवमपि कृते बैल्वका इत्यादीन्यणि १६-३-१६० । २७-४-१११ । ३ उणा० ६३६ । ४३-४-७० । ५६-१-१३५ । ६६-१-१२६ । ७६-३-१६९ । ८ २-४-१८ । ९६-३-३२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy