________________
तत्र नाममात्रेण यथा स्वसादुहितेत्यादयः । अत्र नाममात्रमेव स्त्रीत्वप्रतिपत्तौ समर्थमिति स्त्रीप्रत्ययाभावः। आदेशेन सप्रत्ययेनाऽप्रत्ययेन च, सप्रत्ययेन क्रोष्ट्री कारिषगन्ध्यति; अप्रत्ययेन तिस्रश्चतस्र इति, प्रत्ययेनैकेनाऽनेकेन च, तत्रैकेन राज्ञी ख
वेति, अनेकेन सान्तरेण निरन्तरेण सान्तरनिरन्तरेण च, सान्तरेण कालितरा हरिणितरेति, निरन्तरेण आर्याणी भवानी, सान्तरनिरन्तरेण आर्याणितरा भवानितरेति । 5 तदेवमनेकप्रकारायां लिङ्गप्रतिपत्तो नैकः प्रकारः शक्यो नियन्तुम् । शब्दशक्तिस्वाभाव्यात् ।
'कुलाख्यानाम् ' । २।४ । ७९ ।। गौरादित्वात्तु भोरिकी-भोलिकी । अयमर्थः-प्रथममनेन प्राप्तावस्य बाधनार्थ गौरादौ पाठः । ततस्तत्र पाठाद् डीरेव केवलो मा भूदिति क्रौड्यादौ पाठः।।
10 ___ 'भोजसूतयोः क्षत्रियायुवत्योः'। २।४ । ८१ ॥ जातेरिति डीप्रत्ययापवादोऽनेन ध्यादेशः।
'देवयज्ञिशौचिवृक्षिसात्यमुनिकाण्ठेविद्धा' ।२।४ । ८२ ॥ दैवयस्येति, देव एव यज्ञः पूजनीयो यस्य स तथा । सात्यमुय्येति सत्यमुग्रं यस्याऽसौ सत्यमुग्रः अत एव निर्देशात् मोन्तः । मान्तमव्ययं वा । सत्यमुचं रातीति वा डे। 15 काण्ठयेविद्ध्येति-यदा कण्ठे विध्यते स तदा " तत्पुरुषे कृति " इत्यलुप् । यदा तु कण्ठे विद्धमनेन तदा “ अमूर्धमस्तकात्० " इत्यलुप् ।
'ष्यापुत्रपत्योः केवलयोरीच् तत्पुरुषे' । २।४ । ८३ ।। व्याशब्दादीर्घड्याप् सूत्रत्वाद्वा से प् । पुत्रपत्योरित्यत्र सौत्रनिर्देशात् “ लघ्वक्षरा० " इति पतिशब्दस्य न पूर्वनिपातः।
20 __ 'अस्य यां लुक् । २।४ । ८६ ॥ ईजधिकारे समानदीर्घत्वेनैव प्रयोगजातं सेत्स्यति किं लुग्ग्रहणेन ? सत्यम् , यदा पञ्चभिः क्रीत इति इकणो लुपि 'उभयोः स्थाने' इति न्यायादीचोऽपि डीव्यपदेशे डीनिवृत्ती व्यञ्जनान्तता ईज्व्यपदेशे त्वीकारान्तता मा भूदिति लुग्ग्रहणम् ।
'मत्स्यस्य यः' । २ । ४ । ८७ ॥ मत्सीति-ननु छ्यामिति-"सप्तम्या निर्दिष्टे 25 पूर्वस्य" तच्चानन्तरस्येति न्यायात् मत्सीत्यत्र " स्वरस्य परे प्राग्विधौ” इत्यकारलुचः स्थानिवद्भावाद् ङ्या निमित्ते यकारासम्भवात् कथं लुगिति ? नैवम् , वचनादेकेन
१३-२-२० । २ ३-२-२२ । ३ ३-१-१६० । ४ ७-४-११० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.