________________
( १६४ )
35
यद्यप्ययं गुणवचनस्तथापि नाऽत्रैकवर्णव्यवहितः स्वरात् पर उकार इति" स्वरादुतो ० इत्य मनुष्यजातित्वादप्राणिजातित्वाभावाच्च " उतोऽप्राणिन० ” इति चाप्राप्तेऽनेनोङ् | यदा श्वशुरशब्दः संज्ञाशब्दस्तदाऽऽपि श्वशुरा इत्येव भवति ।
८
यूनस्ति: ' । २ । ४ । ७७ ।। युवतिरित्यत्र ङीरिति 'जातिग्रहणे सकृद्वाधित' 5 इति न्यायात् पश्चात् " इतोऽत्यर्थात् " इत्यपि न ।
'अनार्षे वृद्धेsणि बहुस्वरगुरूपान्त्यस्यान्त्यस्य ष्यः ' । २ । ४ । ७८ ॥ अन्तस्य ष्य इति - अणन्तमिनन्तं च बहुस्वरं नाम निर्दिष्टमिति निर्दिश्यमानानामिति न्यायेन सकलस्याsध्यादेशे प्राप्तेऽन्तग्रहणं, उत्तरार्थं च तेन " भोर्जेसूतयो: ० " इत्यत्र“ अनेकवर्णः सर्वस्य " इति न्यायात् न सर्वयोर्भोज सूतयोः ध्यादेशः । दैवदच्येति-शब्द10 शक्तिस्वाभाव्यात् ष्यादेश आवन्तसहित एव स्त्रीलिङ्गमभिव्यनक्ति । एवं कारिषगन्ध्येत्यपि । कान्यकुब्जीत्यत्र - कन्या कुब्जा यत्रेति " यापो बहुलं ० " इति ह्रस्वः । यद्वा कन्याशब्दं केचित्परतः स्त्रीलिङ्गं मन्यन्ते । आर्तभागीति - ननु च ऋषिवचन एवायमृतभागशब्दस्तत्राऽनार्षत्वमपि नास्तीति द्व्यङ्गविकलत्वम् सत्यम्; शास्त्रेऽस्मिन् प्रदेशान्तरेऽपि ऋषिश्रुत्या विहित " ऋषिवृष्ण्यन्धक० " इति प्रत्यय आर्ष इति रूढः । 15 अयं तु बिदाँदिभ्य इत्येवं विहितत्वादनार्प इति प्रत्युदा हियते । बहुकारिषगन्धा निर्वाराहिरित्यत्राऽणिजन्तस्य स्त्रीवृत्तित्वेऽपि मुख्याधिकारात्तस्याऽन्यपदार्थे गुणीभूतत्वेन मुख्यत्वाभावान्न भवति । नन्वेते ज्यावादयः स्त्रीप्रत्ययाः स्त्रीत्वस्य द्योतका न तुवाचकास्तत्र यथा विद्युदादयः शब्दाः स्त्रीप्रत्ययमन्तरेण स्वमहिम्नैव स्त्रीत्वं प्रतिपादयन्ति तथा खद्वादयोऽपि प्रतिपादयिष्यन्तिः किमेभ्यः स्त्रीप्रत्ययविधानतः १ 20 उच्यते - विचित्रशक्तयो हि भावा भवन्ति । तत्र यथा घनतरतिमिरनिकरनिरुद्धपदार्थसार्थेऽपि निशीथे गगनतलप्रसृमरांशुरचिरांशुरितरनिरपेक्षयैवाऽऽत्मानं प्रकाशयति । न चैवं स्तम्भादयस्तेऽपि चाऽस्मदादीनां प्रदीपादिप्रकाशकसव्यपेक्षा आत्मानं प्रकाशयन्त्येव । संश्लिष्टानां तु प्रदीपादिनिरपेक्षा एव । यथा वा सूर्योपलचण्डचण्डांशुकरनिकरसम्पर्कसमासादितमाहात्म्यः स्वयं शीतोऽपि सान्तरमधः स्थितं दाहां 25 दहति न तु प्रत्यासन्नं प्रत्युत तत्र शैत्यमुपदर्शयति । तथा शब्दा अपि शक्तिवैचित्र्यात् क्वचित्पदत्वेन पदान्तरसापेक्षया पदान्तरानपेक्षेण च स्त्रीत्वं प्रतिपादयन्ति । तत्र पदान्तरसापेक्षेण यथेयं गौरित्यादि । अत्र गवाद्यर्थस्योभयलिङ्गत्वादयमिति पदान्तरापेक्षेण गवादिशब्देन स्त्रीत्वं प्रतिपाद्यते । तस्य स्त्रीत्वाप्रतिपादने इयमिति न स्यात् । पदान्तरानपेक्षेण नाममात्रेणाऽऽदेशप्रत्ययाभ्यां च ।
१२-४-३५ । २२-४-७३ । ३ २-४-३२ । ४ २-४-८१ । ५ २-४-९९ । ६६-१-६१।
"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org