________________
( १६२ ) अभेदाच भेदस्य निवृतत्वात् तद्धितानुपपत्तिः । व्यतिरेकविवक्षेति-प्रष्ठस्येयमिति भेदविवक्षेत्यर्थः।
__ 'पूतक्रतुवृषाकप्यग्निकुसीतकुसीदादै च'।२।४ । ६० ॥ ननु कुसि. दादै चेति-पञ्चमीनिर्देशादैकारः प्रत्यय एव विज्ञायते । ततश्च ङीः, ऐकारश्चप्रत्ययौ 5 भवत इति सूत्रार्थः कथं न लभ्यते ?, कथमुक्तमैकारश्चाऽन्तादेश इति ?, नैष दोषः;
" ऐयेऽमायी ” इति निर्देशात् । न बैकारस्य प्रत्ययत्वेऽनायीति भवति । वृषो धर्मः कपिर्वरा हस्ताद्रूप्यात् पृषोदरादित्वाद्दीघे वृषाकपिः । वृषं दानवमाकम्पितवान् वा, " अंभिकुण्ठि० " इति इः।
'मनोरौ च वा' । २।४ । ६१ । प्रत्ययसंनियोगार्थश्चकारोऽनुवर्तते । वा 10 शब्दः प्रथमं विधेयतया प्रधानेन छीप्रत्ययेन सम्बध्यते, न त्वौकारेण तत्संनियोगविधानेनाऽप्रधानत्वादिति ।
'वरुणेन्द्ररुद्रभवशर्वमृडादान् चान्तः'। २ । ४ । ६२ ॥ आनन्त आगमो भवतीति-आनितिदीर्घोच्चारणं मतसङ्ग्रहार्थम् । अन्तग्रहणाभावे तु आनपि भिन्न
प्रत्ययः स्यात् । किश्चाऽन्तग्रहणाभावे " अनेकैवर्णः सर्वस्य " इति स्यात् । 15 'सूर्याद्देवतायां वा'।२।४ । ६४ ॥ सूर्यस्याऽऽदित्यस्येति-यथा कुन्ती ।
यवयवनारण्यहिमाद्दोषलिप्युरुमहत्त्वे'।२। ४ । ६५ ॥ यौतेरचि यवः नन्द्यादित्वादने च यवनः । धवाद्योगादिति च निवृत्तमिति-दोषाद्यर्थविशेषोपादानादिति शेषः, उरुमहत्त्वयोरेकार्थत्वेऽपि पृथगुपादानं यथासंख्यार्थम् । अण् न भव
तीति-तद्विषये डीविधानादित्यर्थः । 20 'यो डायन् च वा' । २ । ४ । ६७॥ डायन् चेत्यत्र डित्करणमासुराय
णीत्यत्र प्रयोजनार्थम् । डायन् चान्तो वा भवतीति-साक्षानिर्दिष्टस्य डायन एव वाशब्देन सम्बन्धो नानुमितेन ङीप्रत्ययेन प्रत्यासत्तेः । पावटाद्वेति सूत्रकरणाद् वा ।
'लोहितादिशकलान्तात् ' । २।४ । ६८ ॥ कायतेः “पिरञ्जि० " इति कित्यत आकारलोपे च कतः। 25 'पावटाद्वा' । २ । ४ । ६९ ॥ अत्र ङीडायनोरुभयोरनुवर्तनात् प्राधान्याद्
डीप्रत्ययेनैव वाशब्दस्य सम्बन्धो नाऽन्वाचीयमानेन डायनेत्याह-स्त्रियां वाङीर्भवति ।
१३-२-५२ । २ उणा० ६१४ । ३ ४-४-१०७ । ४ उणा० २०८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org