________________
( १६१ ) पाठादित्यर्थः । पुंवद्भावप्रतिषेधार्थ चेति-" परतः स्त्री० " इति “ जातिश्च णि० " इति च प्राप्तस्य ।
'पाणिगृहीतीति' । २ । ४ । ५१ ॥ पाणिगृहीतीति-इति-प्रकारो येषां ते तथा जस् सूत्रत्वात् लुप् ।
'पतिवन्यन्तर्वन्यौ भार्यागभिण्योः ' । २।४ । ५३ ॥ अधिकरणप्रधा- 5 नादपीति-"तदस्याऽस्त्यस्मिन्" इत्यत्र तदिति प्रथमान्ताद्विहितत्वेनाऽप्राप्त इत्यर्थः ।
'जातेरयान्तनित्यस्त्रीशूद्रात्' । २ । ४ । ५४ ॥ जातिः सामान्यमभिन्नबुद्धिध्वनिप्रसवनिबन्धनमर्थस्तत्र च कार्यासम्भवात्तद्वाचिनो ग्रहणमित्याहजातिवाचिन इति । सकृदुपदेशव्यङ्गयत्वे इति-उभयोरपि सम्बध्यते । पात्रीतिअव्युत्पन्नोऽयं “ हुयामा०” इति त्रप्रत्ययान्तो वा । डन्तस्य तु टिद्वारा 10 डीः सिद्ध एव । ब्राह्मणीति-अयमप्यव्युत्पन्नः विकणेति निपातो वा । ब्रह्म अणति कर्मणोऽणि पृषोदरादिनिपाते, अपत्याणि वाऽणन्तत्वाद् डीः सिद्ध एव । बढचीति" नाऽप्रियादौ” इत्यनेन न पुंवन्निषेधः । तत्र पूरण्यबन्तस्य ग्रहणात् । यद्यपि कठादयोऽपि ब्राह्मणविशेषास्तथापि कठादीनामत्रिलिङ्गत्वं न, यथा कठेन प्रोक्तं वेत्यधीते वा कठं ब्राह्मणकुलमिति तुर्य जातिलक्षणं विधेयमेव । कुटीति-मतान्तरेण कुटीशब्दस्य 15 नित्यस्त्रीत्वं स्वमते तु 'गृहे कुट' इति लक्षणेन पुंस्त्रीत्वमिति, मतान्तरेणेदं दर्शितम् । कथं सुपर्णीति-सुपर्णशब्दस्यैव जातित्वं तस्य च कृते समासे मुख्यत्वमित्यभिप्रायः । ___ 'पाककर्णपर्णवालान्तात् ' । २। ४ । ५५ ॥ आखुकर्णीति-आखोः कर्ण इव कर्णपत्रं यस्याः । ' सल' गतौ सल्यत इति घजि सालो दन्त्यादिः । ___ 'असम्भस्त्राजिनैकशणपिण्डात् फलात्' । २।४।५७॥ पिण्डफलेति- 20 पिण्डाकाराणि फलान्यस्याः, पिण्डफला कटुतुम्बी । यनिघण्टु:-" कटुकालाबुती तुम्बी, लञ्चा पिण्डफला तथा ।"
'धवाद्योगादपालकान्तात् ।।२।४ । ५९ ॥ सम्बन्धादिति-सम्बन्धश्च सम्बन्धिनमपेक्षते, स च प्रत्यासन्नत्वाद्धवस्यैव विज्ञायते, तेन धवेन स्त्रियाः सम्बन्धादित्यर्थः । कौमारीति-कुमार्येव प्रतीयते । योगात् सोऽयमिति-अत्र सोऽयमित्यभि- 35 सम्बन्धेन वृत्तिर्वेदितव्या । न ह्ययमेवाऽभिसम्बन्धस्तस्येदमिति, किन्तु सोऽयमित्यपि।
१३-२-४९ । २ ३-२-५१ । ३ ७-२-१ । ४ उणा० ४५१ । ५ ३-२-५३ । ६ लिङ्गा० स्त्रीपुंस प्रक० श्लो. २ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org