________________
( १५८ )
अर्थकथनमिदं प्रवृद्धाऽसौ विलूनच स्त्रीचेदिति तु कार्य, अन्यथा गौणत्वाभावाद् " गोश्चाऽन्ते० " इत्यप्रवृत्तौ विलूनशब्दस्याकारान्तस्याऽभावाद् डी स्यात् ।
"
' केवलमामकभागधेयपापा पर समानार्थकृत सुमङ्गल भेषजात् ' । २ । ४ । २९ || केवलीति - केव्यते सेव्यते केवलिभिरिति " मृदिकन्दिकुण्डि० " इत्यलः । 5 मामकशब्दादिति - ननु कथं मामकग्रहणं नियमार्थं शोभनो मामकोऽस्याः सुमामकेत्रय तदन्तविधेरिष्टत्वाद्विध्यर्थताऽप्युपपद्यत एव । विधिनियमसम्भवे हि विधिरेव ज्यायस्त्वात् । सत्यामपि वा नियमार्थतायां विपरीतनियमः कस्मान्न भवति । मामकशब्दस्यैव नाम्नीति १ अत्रोच्यते - इह प्रकरणे तदन्तविधेरिष्टत्वेऽपि मुख्याधिकारादमुख्यमामकशब्दान्तान्न ङीः । केवलैरेव चैतैः संज्ञाप्रतीतिर्न त्वमुख्यतदन्तैः । अत 10 एव केवला एव केवलादय उदाहृता न कृतसमासा इत्युपपद्यत एव नियमार्थता । विपरीत नियमोsपि न भवति । तथाहि केवलादीनामपि संज्ञायां ङीर्निवर्तितः स्यात् । वचनारम्भसामर्थ्यात् संज्ञाऽपि बोध्यतेति तेषां वैषम्यं स्यात् । यथोक्तनियमे तु न किञ्चिन्नोपपद्यत इति । अपरीति - पिपर्तीत्यचि परस्तस्य समासेऽपरी । भेषजीति - 'भेषृग्' भये, घञि भेषं जयति " केचित् " इति डे | 15 ' भाजगोणनागस्थलकुण्डकालकुशकामुककटकबरात् पक्कावपनस्थूलाकृत्रिमामत्रकृष्णायसीरिरंसुश्रोणिकेशपाशे' | २ | ४ | ३० ॥ कुण्डीति, इह कुण्डशब्दस्य ङीविधानं विस्पष्टार्थमेव । जातिवचनात् " जाते० " इत्यनेनैव सिद्धत्वात् । कुशान्येति-काष्ठमयी तदाऽऽकृतिर्वलगावा । नागेति न अगः "नखादयः” ।
नवा शोणादेः ' | २ | ४ | ३१ || चण्डीति - कोपनायामने न विकल्पो गौर्यां 20 तु गौरादिपाठात् नित्यं ङीः । अरालशब्दो चक्रार्थोऽत्र द्रष्टव्यः, पक्षिविशेषे तु गौरादौ । भर्जातो भरुज ऋषिविशेषो भरूजेति तु पाठान्तरम्, 'भुजैङ् ' भर्जने, णिगन्तादचि । अत एव पाठाद् रेफात् परतो दीर्घ ऊकारागमे भरूजा: स्नेहभृष्टाः किल तण्डुलाः । वृत्रघ्नीति- केवलस्य हनुशब्दस्याऽप्रयोगात्तदन्तमुदाहरति ।
इतोsर्थात् ' | २ | ४ | ३२ || अञ्चतेर्भार्या, अभेदोपचारेणाऽञ्चतीति 25 अग्निभार्या अप्राप्तमपि धवयोगात् स्त्रीत्वम् । अङ्कतिर्वायुर्ब्रह्माऽग्निस्तेषां भार्याऽभेदोपचारेण अङ्कती । कथमिति - अत्रापि तिप्रत्ययोऽस्तीत्याशङ्कार्थः । अन्येत्वितिपाणिनेः पूर्वे । 'ननु कुच्छेषा उणादय' इति न्यायात् कृदन्तेभ्यश्चेत्यनेनैवाऽञ्चति प्रभृती
C
१२-४-९६ । २ उणा. ४६५ । ३५-१-१७१ । ४ २-४-५४ । ५ ३-२-१२८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org