________________
( १५७ ) 'परिमाणात्तद्धितलक्यविस्ताचितकम्बल्यात्' । २ । ४ । २३ ॥ परिच्छित्तिक्रियाकरणमात्रं परिमाणं नेह ग्राह्य मानादित्यकरणादित्याह-तच्चेति । तदन्तादिति-अर्थे कार्यासम्भवात् । परिमाणवाची यः शब्दस्तदन्तादित्यर्थः । द्विशतेत्यादि-" शताद्यः" इत्यस्य विधानसामर्थ्यात् न लुप् तस्य च विकल्पेन प्रवृत्तेः पक्षे " संख्याडते:०" इति कः, “ अनाम्न्यद्विः प्लुप्" । द्विपण्येति-" पर्णपाद० " इत ये 5 तस्य विधानसामादलुपि । ननु बिस्तादय उन्मानवचनास्तथाहि बिस्तशब्देन पष्टिः पलशतान्युच्यन्ते । आचितशब्देन तौलकम् । कम्बल्यशब्देनाऽप्यूर्णापलशतम् । तत्राऽपरिमाणाद् ङीप्रसङ्गाभावात् किं निषेधेन? नैवमनेकार्थानि हि नामानि भवन्ति, तत्र देशविशेष परिमाणार्थान्यप्येतानि सन्ति, तदर्थ युज्यत एव निषेधः ।
'काण्डात प्रमाणादक्षेत्रे' ।२।४।२४॥ क्षियन्ति निवसन्त्युप्तानि 10 बीजानि वृद्धि वा गच्छन्त्यस्मिन्निति " हुयामा० " इति त्रे क्षेत्रम् । पोडशहस्तप्रमाणं काण्डम् । भक्तिग्रहणं तद्धितार्थस्य स्त्रीत्वार्थम् । क्षेत्रसंज्ञिताभ्यामिति-यकाभ्यां काण्डाभ्यां क्षेत्रं परिच्छिनं ते काण्डे अपि क्षेत्रसंज्ञिते ।
'पुरुषाद् वा'।२। ४ । २५ ।। द्विपुरुषीति-मात्रटो " हस्तिपुरुषारण्" इत्यणो वा " द्विगोः संशये च” इति लुप् ।
'रेवतरोहिणाद् भे'।२।४।२६ ॥ रेवत्यां जाता रेवतीति अत्र वाच्या। ततो गौणोऽपि रेवतीशब्दो नक्षत्रे वर्तते । ननु गौरादिभ्य इत्यतो मुख्याधिकारे मुख्यादेव प्राप्नोति तत्कथमत्र गौणात् ? उच्यते-मुख्याधिकारेऽपि कापि शाब्द्या वृत्या काप्यार्थ्या वृत्या प्राधान्यं ग्राह्यम् । अत्र तावदार्थ्या वृत्या प्राधान्यम् । नक्षत्रलक्षणोऽर्थो यदि वाच्यो न भवेत् , तदा कथं तद्विशिष्टः कालो वाच्यः स्यादमुना 20 प्रकारेणेति । कथं रोहिणशब्दस्याऽनक्षत्रार्थाद् डीन प्राप्नोतीत्या शङ्का । प्रकृत्यन्तरमिति-अर्थभेदात् प्रकृतिभेद इत्यर्थः । ___ 'नीलात्प्राण्योषध्योः । २ । ४ । २७ ।। जातिशब्दादपि जातौ नित्यस्त्रीवाजातेरित्यप्राप्तेऽनेनैव ङीः । ये तु नीलः पट इत्यार्थान्तरेऽस्यर्थस्याऽपि दर्शनादनि. त्यं स्त्रीत्वमभ्युपगच्छन्ति, तेषां गुणशब्दस्यैवेदमुदाहरणम् , जातिशब्दात्तु “ जाते० " 25 इति ङीः सिद्ध एव ।
'क्ताच नाम्नि वा' । २।४ । २८ ॥ प्रवृद्धा चाऽसौ विलूना चेतीति
15
१६-४-१४५ । २६-४-१३० । ३६-४-१४१ । ४६-४-१४८ । ५ उणा० ४५१ । ६७-१-१४१ । ७ ७-१-१४४ । ८२-४-५४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org