________________
( १५५ ) इति की रश्च न भवति, किन्तु नान्तत्वात् " स्त्रियां नृतो." इत्यनेन । सदण्डिनीतिअत्रेनः कच् प्राप्तः, “ सहात्तुल्ययोगे " इति निषिध्यते । __ 'मनः'। २।४।१४ ॥ डीन भवतीति-बहुव्रीहौ मन्नन्तेऽप्यन्नन्तद्वारा ङीर्भवत्येव । यथा 'दातुं प्रदानोचितभूरिधाम्नी' इति । अतिमहिमेत्यत्रातिक्रान्तो महिमा ययेति बहुव्रीहौ-" अनो वा" इत्यस्य " मनः" इत्यस्य च द्वयोरन्यत्र 5 चरितार्थत्वात् परत्वात् प्राप्तमपि प्रतिषेधं बाधित्वा विशेष विहितत्वादनो वेति विकल्प एव । योगविभागादिति-न मन्नुपान्त्यवद्भ्यामित्येवंरूपात् ।।
'ताभ्यां वाडित्'।२।४ । १५ ॥ पूर्वाभ्यामिति-" मनः", "नोपान्त्यवतः” इत्येताभ्याम् । “ महत्वयोगाय महामहिम्नामाराधनीं तां नृपदेवतानाम् । दातुं प्रदानोचितभूरिधाम्नीमुपागतः सिद्धिमिवाऽस्मि विद्याम् " ॥१॥ किरा० ३. 10 श्लो. २३ । त्रैरूप्यमिति- " वो बहुव्रीहेः” इति वचनाद् वनन्तस्याऽपि त्रैरूप्यं तेन सुधीवे सुधीवानी सुधीवयौँ । __'अजादेः' । २। ४ । १६ ॥ विपूर्वाल्लातेः क्ते विलातेति न्यासः । पूर्वापहाणेति-अपहीयतेऽस्यामनया वा " करणाऽऽधारे” अनद । अपहानशब्दोऽपि टिद्वारेण ङीप्रत्ययाभावार्थमजादौ द्रष्टव्यस्तेन पूर्वा च साऽपहाना चेति आबन्तेन वाक्यं 15 कार्यम् । क्रियाशब्दत्वाचेति “पूर्वपदस्था०” इति णत्वाभावः । नामग्रहणे न तदन्तस्येति न्यायादजाद्यन्तादापः प्राप्तिरेव नास्ति किमावृत्तिव्याख्यानेनेत्याह-अत एव चेति ।
'ऋचि पादः पात्पदे'। २।४ । १७ ॥ ननु ऋचि पादो वा क्रियताम् । ऋचि अभिधेयायां वाप भवतीति सूत्रार्थः, न; विकल्पपक्षे ऋच्यभिधेयायामपि " वा पादः " इति डीः स्यात् । “ वा पादः " इति प्राप्तेऽयमारभ्यते ।
'आत्'।२।४ । १८॥ ननु यासेत्यादीनामनेकलिङ्गानां यः स इत्यादा. वकारान्तप्रयोगदर्शनादकारान्तत्वनिर्णयादस्तु तत आप, खवादीनां तु नित्यं स्त्रियां वर्तमानत्वादकारान्तप्रयोगादर्शनात्तदनिश्चयात् कथं तेभ्य आबित्याशक्याऽऽह-खट्टादीनामिति । उपदेशाचेति-यद्यकारान्तो न स्यात्ततो नाऽऽवन्त इति तस्याऽऽद्वारेण इस्त्रोऽपि न स्यादित्यर्थः । आदिति किमिति-अवर्णादिति क्रियतामित्यर्थः । सोमपा 25 स्त्रीति सोमं पिबतीति विचू, आदितिवचनादत्राऽऽप्न भवति । ननु चाऽत्राऽऽभावा
20
१२-४-१। २७-३-१७८ । ३२-४-११।४२-४-१३ । ५२-४-५। ६५-३-१२९ । ७२-३-६४ । ८२-४-६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org