________________
( १५३ ) त्यये ऋफिडः । अर्तेरेव क्ते कुत्सादौ के ऋतकः । तृपौ च “ सुणीकास्तीक०" इति तपरीकं । कपिरशब्दात् के-कपिरकं । नञ्पूर्वाद्रातेः “गमिजमि०” इति बहुवचनात् डित्यपि अरम् । लिखेः समानार्थात् रिघर्मिदाद्यङि रेखा । वडेः सौत्रात् “कशगशलि." इति अभे गौरादिङ्यां च वडभी । वडेः सौत्रात् “ कुलिकनि०” इति किशि वडिशं । डिण्डिमिति ध्वनिमततीति " कंचित् " इति डे डिण्डिमः ।
'जपादीनां पो वः' । २।३ । १०५ ॥ विष्लंकी “ विष्टंपोलप० " इति । तृतीयं विष्टपं प्राच्यास्त्रिविष्टपमिति पठन्ति । इत्याचार्यश्रीहेमचन्द्रानुस्मृते शब्दानुशासनेऽवचूरिकायां
तृतीयः पादः॥
10
'स्त्रियां नृतोऽस्वस्रादे8:। २।४।१॥ अतिराज्ञीति-पूजितो राजा स्त्री चेदतिराज्ञीति । " पूँजास्वते:०” इति समासान्तप्रतिषेधः । राजानमतिक्रान्तेत्यपि कृते समासान्तविधेरनित्यत्वमिति काशिका । ___ 'अधातूदृदितः ।। २ । ४ । २ ॥ गोमदादिशब्दोऽप्युदिदिति-अवयवधर्मेण समुदायोऽपि व्यपदिश्यते-अत्राऽवयव उदित्, तद्धर्मेण समुदायोऽपीत्यर्थः। सुकन्नित्यादि 15 " स्महतोः " इत्यत्र महत्साहचर्यात् क्विवन्तस्य कंसो न ग्रहणमित्यर्थस्य ज्ञापितस्वादत्र न दीर्घः। प्रत्ययस्योदित्वादिति-अजादेरित्यत्राऽऽवृत्तिव्याख्यानेन तदन्तस्य ग्रहणे सिद्धे यदिदं व्याख्यानं तयुक्त्यन्तरस्याऽपि दर्शनार्थम् । यत एकस्यापि साध्यस्य सिद्ध्यर्थं बढयोऽपि युक्तय उपन्यस्यन्ते ।
'अञ्चः'।२।४ । ३ ॥ अञ्च इति कृतनलोपाभावस्य धातुरूपस्याऽश्चेनिर्देश-20 स्तेनाऽर्चाविवक्षणे नलोपाभावे तदविवक्षणे लोपेऽपि डीः सिद्धः । अच इति निर्देशे तु “ अच्चू प्राग्दीर्घश्च" इतिवत् कृतनलोपस्यैव स्यात् । इत्थं च प्राञ्चीप्रत्यञ्चीत्यादौ ङीर्नाऽऽगच्छेत् । ___णस्वराज्योषाद्वनोरश्च'। २।४ । ४ । ननु 'निरनुबन्धग्रहणे न सानुबन्धकस्य' इति क्वनिप्डनिपोर्ग्रहणं न प्रामोति ? उच्यते-'निरनुबन्धग्रहणे क्वचित्सानुवन्धस्य 25 ग्रहणम्' इति न्यायात् न दोषः। वनोऽन्तस्येति-ननु प्रत्ययस्येति सर्वस्याऽपि प्रामोति
१ उणा० ५० । २ उणा० ९३७ । ३ उणा• ३२९ । ४ उणा० ५३५ । ५५-१-१७१ । ६ उणा० ३०७ । ७ ७-३-७२ । ८ १-४-८६ । ९२-१-१०४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org