________________
( १५२ )
यङ्लुप्निवृत्यर्थम् । अनुबन्धनिर्देशे हि क्षोभणमित्यत्राऽपि स्यात् । एवं तृप्नुत इत्यत्राsपि । यद्येवं तर्हि क्षुभ्नीत इत्यादौ णत्वशास्त्रस्य परेऽसच्चादीकारादौ कृते क्षुम्नेति-रूपाभावान्न प्राप्नोति ? उच्यते - स्वरादेशस्य स्थानिवद्भावादेकदेशविकृतस्याऽनन्यत्वाद्वा भविष्यतीत्यदोषः । बहुवचनेन चाऽस्याऽऽकृतिगणता द्योत्यते । तेनाऽन्यो5 sप्यविहितलक्षणो णत्वप्रतिषेधः क्षुम्नादिषु द्रष्टव्यस्तेन धनदवाचकनरवाहनशब्दस्य न णत्वम् । नृनमित्येक इति-अविभक्तिको निर्देशः । अकारान्तस्त्वयं ज्ञातव्यः ।
"
पाठे धात्वादेर्णो नः ' । २ । ३ । ९७ ॥ नन्वादिग्रहणं किमर्थं तमन्तरेणाऽपि णोपदेशवलाण्णत्वं न भविष्यति, अन्यथा भनित्येव पठ्यते १, नैवम् ; णोपदेशस्य । " अर्दुरुपसर्गा० " इति णत्वे फलमस्ति, तथाद्युपसर्गपूर्वस्य प्रभणति अन्यत्र तु 10 मनतीति स्यादित्यादिग्रहणं कर्तव्यमेव । पाठ इति किमिति पाठ इत्यनेन धातूपदेशस्य ग्रहणाणकारीयतेरनुपदेशान्नत्वाभावः । अथैते नादय एव पठ्यन्तां तथा च सति नेदमारब्धव्यं भवतीत्याह - णोपदेशश्चेति - एवमुत्तरत्र पोपदेशेऽपि ।
'षः सोऽष्ट्यैष्ठवष्वष्कः ' | २ | ३ | ९८ ॥ नन्वत्राऽप्यादेरित्यधिकाराभावेऽपि पाठवलादेव लपतीत्यादौ पत्वं न भविष्यति किं तेनेति ? सत्यं, परोक्षाया मुसिकृत15 त्वात् सस्य पत्वे व्यले पुरित्यत्र फलम् ।
ऋरललं कृपोऽकृपीटादिषु ' । २ । ३ । ९९ ॥ “ दूरादीमन्त्र्यस्य ०" इत्यत्र ऋद्वर्जितस्य प्लुतत्वं वदन् स्वरद्वारेणैव सिद्धे पुनरपि यत लकारग्रहणं करोति तदेव बोधयति ऋत्प्रतिषेधे ऌतोऽपि प्रतिषेधप्रसङ्ग इति ' ऋकारापदिष्टं कार्यं लकारस्याsपीति' । अचीक्लपत् अत्र " ऋटवर्णस्य, ऋतोsत् " चलीकृप्यत इत्यत्र “रिरौ चै
20 लुपि ” इति सिद्धम् ।
(
'ग्रो यङि ' । २ । ३ । १०१ ॥ निजेगिल्यत इति-अत्र स्वादेरित्यस्य परे लत्वेऽसन्च्त्वम् । यङेव नाऽस्तीति - " न गृणाशुभरुचः " इति निषेधात् ।
""
6
नवा स्वरे ' । २ । ३ । १०२ ।। निगाल्यत इति - अत्र निपूर्वाद्धृतो णौ वृद्धौ लकारो णिलोपश्चेत्युभयप्राप्तौ नित्यत्वात् पूर्वं णिलोपः । न च ' प्रत्ययलोपे प्रत्ययलक्षणम् ' इतिन्यायेन लत्वस्यापि प्राप्तौ तस्याऽपि नित्यत्वं, वर्णाश्रये प्रत्ययलक्षणस्य प्रतिषेधात् ।
25
6
ऋफिडादीनां ङश्च लः
,
। २ । ३ । १०४ ।। अर्कैर्वाहुलकात् फिडक्प्र
१२-३-७७ । २७-४-९९ । ३४-२-३७ । ४४-१-३८ । ५४-१-५६ । ६ ३-४-१३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org